सञ्जयः-
उलूकस्य वचश्श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः
सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम्
पदातिनीं नागवतीं रथिनीमश्वबृन्दिनीम्
चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव
भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः
धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम्
तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः
द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नो व्यकर्षत
यथाबलं यथोत्साहं रथिनस्समुपादिशत्
अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च
धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम्
अश्वात्थाम्ने च नकुलं शैब्यं च कृतवर्मणे
सैन्धवाय च वार्ष्णेयं युयुधानं समादिशत्
शिखण्डिनं च भीष्माय प्रमुखे तमकल्पयत्
सहदेवं शकुनये चेकितानं शलाय च
द्रौपदेयांस्तथा पञ्च त्रिगर्तेभ्यस्समादिशत्
वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम्
स समर्थं तं च मेने वै पार्थादभ्यधिकं रणे
एवं विभज्य योधांस्तान्पृथक्व सह चैव ह
ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत्
धृष्टद्युम्नो महेष्वासस्सेनापतिपतिस्ततः
विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः
यथोद्दिष्टानि सैन्यानि पाण्डवानामयोजयत्
जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे