सञ्जयः-
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभ
नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत
स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम्
अर्जुनः-
स्ववीर्यं यस्समाश्रित्य समाह्वयति वै परान्
अभीतो युध्यते शत्रून्स वै पुरुष उच्यते
परवीर्यं समाश्रित्य यस्समाह्वयते परान्
क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः
स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः
स्वयं कापुरुषो मूढ परांश्च क्षेप्तुमिच्छसि
यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम्
मरणाय महाप्रज्ञं दीक्षयित्वा विकत्थसे
भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन
न हनिष्यन्ति गाङ्गेयं पाण्डवा घृणयेति हि
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे
हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम्
कैतव्य गत्वा भरतान्समेत्य सुयोधनं धार्तराष्ट्रं ब्रवीहि
तथेत्युवाचार्जुनस्सव्यसाची निशाव्यपाये भविता विमर्दः
यद्वाऽब्रवीद्वाक्यमदीनसत्वो मध्ये कुरून्हर्षयन्सत्यसन्धः
अहं हन्ता सृञ्जयानामनीकं साल्वेयकांश्चेति ममैष भारः
हन्यामहं द्रोणमृतेऽपि लोकं न ते भयं विद्यते पाण्डवेभ्यः
ततो हि ते लब्धमदश्च राज्यमापद्गताः पाण्डवाश्चेति भावः
स दर्पपूर्णो न समीक्षसे त्वमनर्थमात्मन्यपि वर्तमानम्
तस्मादहं ते प्रथमं समूहे हन्ता समक्षं कुरुवृद्धमेव
सूर्योदये युक्तसेनः प्रतीक्ष्य ध्वजी रथी रक्ष च सत्यसन्धम्
अहं हि वः पश्यतां वै समक्षं भीष्मं रथात्पातयिष्यामि बाणैः
श्वोभूते कत्थनावाक्यं विज्ञास्यसि सुयोधन
आचितं शरजालेन मया दृष्ट्वा पितामहम्
यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः
क्रुद्धेन भीमसेनेन भ्राता दुश्शासनस्तव
अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत्
स तां प्रतिज्ञामचिराद्द्रक्ष्यसे त्वं सुयोधन
अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा
नैष्ठुर्यस्यावलेपस्य आत्मसम्भावनस्य च
नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च
अधर्मस्यापवादस्य वृद्धातिक्रमणस्य च
दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च
द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन
वासुदेवद्वितीये हि मयि क्रुद्धे नराधम
आशा ते जीविते मूढ राज्ये वा केन हेतुना
शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते
निराशो जीविते राज्ये पुत्रेषु च भविष्यसि
भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुयोधन
भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि
न द्वितीयां प्रतिज्ञां हि प्रतिजानामि कैतव
सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति
इत्युक्तः कैतवो वाक्यं तद्वायमुपधार्य च
अनुज्ञातो निववृतो पुनरेव यथागतम्
उपावृत्य तु कैतव्यः पाण्डुभ्यो धृतराष्ट्रजम्
गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि
कैतव्यस्य तु तद्वाक्यं निशम्य भरतर्षभः
दुश्शासनं च कर्णं च शकुनिं चाभ्यभाषत
आज्ञापयत राज्ञश्च बलं मित्रबलं तथा
यथा प्रागुदयात्सर्वा युक्ता तिष्ठत्यनीकिनी
ततः कर्णसमादिष्टा दूतास्सन्त्वरिता रथैः
उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः
तूर्णं परिययुस्सेनां पूर्णां कर्णस्य शासनात्
आज्ञापयन्तो राज्ञश्च योगः प्रागुदयादिति