सञ्जयः-
उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत्
आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया
तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम्
प्रागेव भृशसङ्क्रुद्धाः कैतव्येनापि धर्षिताः
आसनेषूदतिष्ठन्त बाहूंश्चैव प्रचिक्षिपुः
आशीविषा इव क्रुद्धा वीक्षाञ्चक्रुः परस्परम्
अवाक्छिरा भीमसेनस्समुदैक्षत कैतवम्
नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन्
आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम्
उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत
श्रीभगवान्-
प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम्
श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथाऽस्तु तत्
मद्वचश्चापि भूयस्ते वक्तव्यस्स सुयोधनः
श्व इदानीं प्रपश्येथाः पुरुषो भव दुर्मते
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः
सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च
जघन्यकालमप्येतन्न भवेत्सर्वपार्थिवान्
निर्दहेयमहं क्रोधात्तृणानीव हुताशनः
युधिष्ठिरनियोगाच्च फल्गुनस्य महात्मनः
करिष्ये युध्यमानस्य सारथ्यं विजितात्मनः
यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम्
तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसेऽग्रतः
यच्चापि भीमसेनस्य मन्यसे मोघगर्जितम्
दुश्शासनस्य रुधिरं पीतमद्यावधार्यताम्
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः
न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम्