सञ्जयः-
हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु
दुर्योधनो महाराजा कर्णेन सह भारत
सम्भाषित्वा च कर्णेन भ्रात्रा दुश्शासनेन च
सौबलेन च राजेन्द्र मन्त्रयित्वा नरर्षभ
आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत्
दुर्योधनः-
उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान्
गत्वा मम वचो ब्रूहि वासुदेवस्य श्रृण्वतः
इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम्
पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम्
यदेतत्कथ्यते वाक्यं सञ्जयो मां यदब्रवीत्
वासुदेवसहायस्य गर्जतस्सानुजस्य च
मध्ये करूणां कौन्तेय तस्य कालोयमागतः
यथा वस्सम्प्रतिज्ञातं तत्सर्वं क्रियतामिति