जनमेजयः-
तथा व्यूढेष्वनीकेषु युद्धाय भरतर्षभ
किमर्कुर्वंश्च कौरव्याः कालेनाभिप्रचोदिताः
वैशम्पायनः-
तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ
धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत्
धृतराष्ट्रः-
एहि सञ्जय सर्वं मे आचक्ष्वानवशेषतः
सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम्
यदहं जानमानोऽपि युद्धदोषान्क्षयोदयान्
तथाऽपि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम्
न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः
भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी
दुर्योधनं समासाद्य पुनस्सा परिवर्तते
एवं गते वै यद्भावि तद्भविष्यति सञ्जय
क्षत्रधर्मः किल रणे तनुत्यागे हि पूजितः
सञ्जयः-
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथेच्छसि
न तु दुर्योधने दोषमिममासक्तुमर्हसि
शृणुष्वानवशेषेण वदतः पार्थिवर्षभ
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः
एनसा न स दैवं वा कालं वा गन्तुमर्हति
महाराज मनुष्येषु निन्द्यं यस्सर्वमाचरेत्
स वध्यस्सर्वलोकस्य निन्दितानि समाचरन्
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया
अनुभूता महाराज निकृतैस्सहदैवतैः
हयानां च गजानां च राज्ञां चामिततेजसाम्
वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः
स्थिरो भूत्वा महाप्राज्ञ सर्वलोकक्षयोदयम्
यथाभूतं महायुद्धे श्रुत्वा मा विमना भव
न ह्येव कर्ता पुरुषः कर्मणोश्शुभपापयोः
अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत्
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया
पूर्वकर्मभिरप्यन्ये त्रैधमेतद्धि भाष्यते