वैशम्पायनः-
एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः
हिरण्यरोम्णो नृपतेस्साक्षादिन्द्रसखस्य वै
आहृतीनामधिपतेर्भोजस्यातियशस्विनः
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः
यः किम्पुरुषसिंहस्य गन्धमादनवासिनः
कृत्स्नं शिष्यो धनुर्वेदं चतुष्पादमवाप्तवान्
यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा
शार्ङ्गेण च महाबाहुस्सम्मितं दिव्यलक्षणम्
त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम्
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः
शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः
धारयामास तत्कृष्णः परसेनाभयावहम्
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः
द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत
सञ्छिद्य मौरवान्पाशान्निहत्य मुरमोजसा
निर्जित्य नरकं भौममाहृत्य मणिकुण्डले
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च
प्रतिपेदे हृषीकेशश्शार्ङ्गं च धनुरुत्तमम्
रुक्मी तु विजयं लब्ध्वा धनुर्मेघनिभस्वनम्
विभीषयन्निव जगत्पाण्डवानभ्यवर्तत
नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितः
रुक्मिण्या हरणं वीरो वासुदेवेन धीमता
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्ये जनार्दनम्
ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरः
सेनया चतुरङ्गिण्या महत्या दूरपातया
विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम्
व्यंसितो व्रीडितो राजा नाजगाम स कुण्डिनम्
यत्रैव कृष्णेन रणे निर्जितः परवीरहा
तत्र भोजकटं नाम कृतं नगरमुत्तमम्
सैन्येन महता तेन प्रभूतगजवाजिना
पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप
स भोजराजस्सैन्येन महता परिवारितः
अक्षौहिण्या महावीर्यः पाण्डवं क्षिप्रमागमत्
ततस्स कवची खङ्गी तली धन्वी शरी रथी
रथेनादित्यवर्णेन प्रविवेश महाचमूम्
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया
युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत्
स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः
प्रतिगृह्य च तान्सर्वान्विश्रान्तस्सहसैनिकः
उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम्
रुक्मी-
साहाय्येऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः
न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन
हनिष्यामि रणे भागं यन्मे दास्यसि पाण्डव
अपि द्रोणकृपौ वीरौ भीष्मकर्णावथो पुनः
अथवा सर्व एवैते तिष्ठन्तु वसुधाधिपाः
निहत्य समरे शत्रूंस्तव दास्यामि मेदिनीम्
वैशम्पायनः-
इत्युक्तो धर्मराजस्य केशवस्य च सन्निधौ
श्रृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वतः
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम्
उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम्
अर्जुनः-
युध्यमानस्य मे वीर गन्धर्वैस्सुमहाबलैः
सहायो घोषयात्रायां कस्तदाऽऽसीत्सखा मम
तदा प्रतिभये तस्मिन्देवदानवसङ्कुले
खाण्डवे युध्यमानस्य कस्सहायस्तदाऽभवत्
निवातकवचैर्युद्धे कालकेयैश्च दानवैः
तत्र मे युध्यमानस्य कस्सहायस्तदाऽभवत्
तथा विराटनगरे कुरुभिस्सह सङ्गरे
युध्यतो बहुभिस्तत्र कस्सहायस्तदाऽभवत्
उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम्
वरुणं पावकं चैव कृपं कृष्णं च माधवम्
धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम्
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः
कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः
द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान्
कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम्
वचनं नरशार्दूल वज्रायुधमपि स्वयम्
वैशम्पायनः-
नास्ति भीतो महाबाहो सहायार्थं च नास्ति मे
यथाकामं यथायोगं गच्छ वाऽत्रैव तिष्ठ वा
तच्छ्रुत्वा वचनं तस्य विजयस्य च धीमतः
विनिवर्त्य ततो रुक्मी सेनां सागरसन्निभाम्
दुर्योधनमुपागच्छत्तथैव भरतर्षभ
तथैव चाभिगम्यैनमुवाच वसुधाधिपः
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना
द्वावेव तु महाराज तस्माद्युद्धादपेयतुः
रौहिणेयश्च वार्ष्णेयो रुक्मी च स नराधिपः
गते रामे तीर्थयात्रां भीष्मकस्य सुते तदा
उपाविशन्पाण्डवेया मन्त्राय पुनरेव च
समितिर्धर्मराजस्य सा पार्थिवसमाकुला
शुशुभे तारकाचित्रा द्यौस्सचन्द्रेव भारत