वैशम्पायनः-
वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम्
अस्मिन्नभ्यागते काले किञ्च नः क्षममच्युत
कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि
दुर्योधनस्य कर्णस्य शकुनेस्सौबलस्य च
वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च
विदुरस्यापि तद्वाक्यं श्रुतं भीष्मस्य चोभयोः
कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता
सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः
यन्नः क्षमं महाबाहो तद्ब्रवीह्यविचारयन्
श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः
मेघदुन्दुभिनिर्घोषः कृष्णो वाक्यमथाब्रवीत्
श्रीभगवान्-
उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम्
न तु तं निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति
न च भीष्मस्य दुर्मेधाश्शृणोति विदुरस्य वा
मम वा भाषितं किञ्चित्सर्वमेतन्निरर्थकम्
नैष कामयते धर्मं नैष कामयते यशः
जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः
बन्धमाज्ञापयामास मम चापि सुयोधनः
न च तं लब्धवान्कामं दुरात्मा शासनातिगः
न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः
सर्वे तमनुवर्तन्ते ऋते विदुरमुच्युत
शकुनिस्सौबलश्चैव कर्णदुश्शासनावपि
त्वय्ययुक्तान्यभाषन्त मूढा पणडितमानिनः
किञ्चैतेन मयोक्तेन यान्यभाषत कौरवः
सङ्क्षेपेण दुरात्माऽसौ न युक्तं त्वयि वर्तते
पार्थिवेषु न सर्वेषु य इमे तव सैनिकाः
यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम्
न चापि वयमत्यर्थं परित्यागेन कर्हिचित्
कौरवैश्शममिच्छामस्तत्र युद्धमनन्तरम्
वैशम्पायनः-
तच्छ्रुत्वा पार्थिवास्सर्वे वासुदेवेन भाषितम्
अब्रुवन्तो मुखं राज्ञस्समुदैक्षन्त भारत
युधिष्ठिरस्त्वभिप्रायमभिलक्ष्य महीक्षिताम्
योगमाज्ञापयामास भीमार्जुनयमैस्सह
ततः किलकिलाभूतमनीकं पाण्डवस्य ह
आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः
अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः
निश्वसन्भीमसेनं च विजयं चेदमब्रवीत्
युधिष्ठिरः-
यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया
सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः
यस्मिन्यत्नः कृतोऽस्माभिस्स नो हीनः प्रयत्नतः
अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान्
कथं ह्यवध्यैस्सङ्ग्रामः कार्यस्सह भविष्यति
कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति
तच्छ्रुत्वा धर्मराजस्य सव्यसाची परन्तपः
यदुक्तं वासुदेवेन श्रावयामास तद्वचः
अर्जुनः-
उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च
वचनं तत्त्वया राजन्निखिलेनावधारितम्
न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः
नापि युक्तं च कौन्तेय निवर्तितुमयुध्यतः
वैशम्पायनः-
तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा
स्मयमानोऽब्रवीद्वाक्यं पार्थमेवमिति ब्रुवन्
ततस्ते धृतसङ्कल्पा युद्धाय सह सैनिकाः
पाण्डवेया महाराज तां रात्रिं सुखमावसन्