श्रीभगवान्-
भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमम्
द्रोणः-
प्रातीपश्शन्तनुस्तात कुलस्यार्थे यथोत्थितः
तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत्
तथा पाण्डुर्नरपतिस्सत्यसन्धो जितेन्द्रियः
राजा कुरूणां धर्मात्मा सुव्रतस्सुसमाहिताः
ज्येष्ठाय राज्यमददाद्धृतराष्ट्राय धीमते
यवीयसस्तथा क्षत्तुः कुरुवंशविवर्धनः
ततस्सर्वाः प्रजास्तात धृतराष्ट्रं जनाधिपम्
अन्वपद्यन्त विधिवद्यथा पाण्डुं नराधिपम्
सन्धिविग्रहतत्वज्ञो राज्ञो वैवाहिकक्रियाम्
अवैक्षत महातेजा भीष्मः कुरुपितामहः
सिंहासनस्थो नृपतिर्धृतराष्ट्रो महामनाः
अन्वास्यमानस्सततं विदुरेण महात्मना
नीचैस्स्थित्वा तु विदुर उपास्ते स्म विनीतवत्
प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन्
कोशसंयमने दाने भृत्यानामन्ववेक्षणे
भरणे चैव सर्वस्य विदुरस्सत्यसङ्गरः
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च
चचार पृथिवीं पाण्डुस्सर्वां परपुरञ्जयः
ततस्सिंहासने राजा स्थापयित्वैनमच्युतम्
वनं जगाम कौरव्यो भार्याभ्यां सहितोऽनघ
कथं तस्य कुले जातः कुले भेदं करिष्यसि
सम्भूय भ्रातृभिस्सार्धं भुङ्क्ष भोगाञ्जनाधिप
ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथञ्चन
भीष्मेण दत्तमश्नामि न त्वया राजसत्तम
नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप
यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु
दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन
सममाचार्यकं तात तव तेषां च मे सदा
अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम
बहुना किं प्रलापेन यतो धर्मस्ततो जयः
श्रीभगवान्-
एवमुक्ते महाराज द्रोणेनामिततेजसा
व्याजहार ततो वाक्यं विदुरस्सत्यसङ्गरः
पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित्
विदुरः-
देवव्रत निबोधेदं वचनं मम भाषतः
प्रनष्टः कौरवो वंशस्त्वयाऽयं पुनरुद्धृतः
त्वं मे विलपमानस्य वचनं समुपेक्षसे
कोऽयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः
यस्य लोभाभिभूतस्य मतिं समनुवर्तसे
अनार्यस्याकृतज्ञस्य लोभेन हृतचेतसः
अतिक्रामति यश्शास्त्रं पितुर्धर्मार्थदर्शिनः
एते नश्यन्ति कुरवो दुर्योधनकृतेन वै
यथा ते न प्रणश्येयुर्महाराज तथा कुरु
मा चैव धृतराष्ट्रं च सर्वांश्चैव महाद्युते
चित्रकार इवालेख्यं कृत्वा राजन्विनाशय
प्रजापतिः प्रजास्सृष्ट्वा यथा संहरते तथा
नोपेक्षश्व महाबाहो पश्यमानः कुलक्षयम्
अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते
वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम्
शाधीदं राज्यमद्याशु पाण्डवैरभिरक्षितम्
प्रसीद राजशार्दूल विनाशो दृश्यते महान्
पाण्डवानां कुरूणां च राज्ञाममिततेजसाम्
श्रीभगवान्-
विररामैवमुक्त्वा तु विदुरो दीनमानसः
प्रध्यायमानस्स तदा निश्वसंश्च पुनः पुनः
ततोऽस्य राज्ञस्सुबलस्य पुत्री धर्मार्थयुक्तं कुलनाशमीता
दुर्योधनं पापमतिं नृशंसं राज्ञां समक्षं सुतमाह कोपात्
गान्धारी-
ये पार्थिवा राजसभां प्रविष्टा ब्रह्मर्षयो ये च सभासदोऽन्ये
श्रृण्वन्तु वक्ष्यामि तथाऽपराधं पापस्य सामात्यपरिच्छदस्य
राज्यं कुरूणामनुभूतभोग्यं क्रमागतो नः कुलधर्म एषः
त्वं पापबुद्धे सुनृशंसकर्मा राज्यं कुरूणामनयाद्वि हंसि
राज्ये स्थितो धृतराष्ट्रो मनीषी तस्यानुजो विदुरो दीर्घदर्शी
एतावतिक्रम्य कथं नृपत्वं दुर्योधन प्रार्थयसेऽद्य मोहात्
राजा च क्षत्ता च महानुभावौ भीष्मे स्थिते परवन्तौ भवेताम्
अयं तु धर्मज्ञतया महात्मा न राज्यकामो नृवरो नदीजः
राज्यं तु पाण्डोरिदमप्रधृष्यं तस्याद्य पुत्राः प्रभवन्ति नान्ये
राज्यं तदेतन्निखिलं पाण्डवानां पैतामहं पुत्रपौत्रानुगामि
यद्वै ब्रूते कुरुमुख्यो महात्मा देवव्रतस्सत्यसन्धो मनीषी
सर्वं तदस्माभिरधीत्य धर्मं ग्राह्यं स्वधर्मान्परिपालयद्भिः
अनुज्ञया चाथ महाव्रतस्य ब्रूयान्नृपोऽयं विदुरस्तथैव
कार्यं भवेत्तत्सुहृद्भिर्नियोज्यं धर्मं पुरस्कृत्य सुदीर्घकालम्
न्यायागतं राज्यमिदं कुरूणां युधिष्ठिरश्शास्तु वै धर्मपुत्रः
प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतश्शान्तनवेन चैव