वैशम्पायनः-
आगम्य हास्तिनपुरादुपप्लाव्यमरिन्दमः
पाण्डवानां यथावृत्तं केशवस्सर्वमुक्तवान्
सम्भाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः
स्वमेव भवनं शौरिर्विश्रमार्थं जगाम ह
पाण्डवा भ्रातरः पञ्च भानावस्तं गते सति
विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा
सन्ध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः
आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन्
युधिष्ठिरः-
त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः
किमुक्तः पुण्डरीकाक्ष तं नश्शंसितुमर्हसि
श्रीभगवान्-
मया नागपुरं गत्वा सभायां धृतराष्ट्रजः
तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः
युधिष्ठिरः-
तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः
किमुक्तवान्हृषीकेश दुर्योधनममर्षणम्
आचार्यो वा महाबाहो भारद्वाजः किमब्रवीत्
पिता वा धृतराष्ट्रस्तं गान्धारी वा किमब्रवीत्
पिता यवीयानस्माकं क्षत्ता धर्मविदां वरः
पुत्रशोकाभिसन्तप्तः किमाह धृतराष्ट्रजम्
किञ्च सर्वे नृपतयस्सभायां ये समासते
उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन
उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः
प्रतिकूलमयुक्तं च हृदयान्नापसर्पति
धार्तराष्ट्रस्य तेषां हि वचनं कुरुसंसदि
कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः
अप्रियं हृदये तस्य किं नु तिष्ठति केशव
तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो
यथा च नातिपद्येत कालस्तात तथा कुरु
भवान्हि नो बलं कृष्ण भवान्नाथो भवान्गतिः
श्रीभगवान्-
श्रृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः
मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे
मया विश्राविते वाक्ये जहास धृतराष्ट्रजः
अथ भीष्मस्सुसङ्क्रुद्ध इदं वचनमब्रवीत्
भीष्मः-
दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते
तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु
मम तात पिता राजञ्शन्तनुर्लोकविश्रुतः
तस्याहमेक एवासं पुत्रः पुत्रवतां वरः
तस्य बुद्धिस्समुत्पन्ना द्वितीयस्स्यात्कथं सुतः
एकं पुत्रमपुत्रं वै प्रवदन्ति मनीषिणः
न चोच्छेदं कुलं यायाद्विस्तीर्येत कथं यशः
तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम्
प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च
अराजा चोर्ध्वरेताश्च यथा सुविदितं तव
प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन्
विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिवः
तस्यां जज्ञे महाबाहुश्श्रीमान्कुरुकुलोद्वहः
स्वर्यातेऽहं पितरि तं स्वराज्ये सन्न्यवेशयम्
विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः
तस्याहं सदृशान्दारान्राजेन्द्र समुदावहम्
जित्वा पार्थिवसङ्घातमपि ते बहुशश्श्रुतम्
ततो रामेण समरे द्वन्द्वयुद्धमुपागमम्
स हि रामभयादेभिर्नागरैर्विप्रवासितः
दारेष्वप्यतिसक्तश्च यक्ष्माणं समपद्यत
यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः
तदाऽभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः
प्रजाः-
उपक्षीणाः प्रजास्सर्वा राजा भव भवाय नः
ईतयो नुद भद्रं ते शन्तनोः कुलवर्धन
पीड्यन्ते ते प्रजास्सर्वा व्याधिभिर्भृशदारुणैः
अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि
व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय
त्वयि जिवती मा राष्ट्रं विनाशमुपगच्छतु
भीष्मः-
प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः
प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस्तथा
भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः
ततः पौरा महाराज माता काली च मे शुभा
मामूचुर्भृशसन्तप्ता भव राजेति सन्ततम्
प्रतीपरक्षितं राज्यं त्वां प्राप्य विनशिष्यति
स त्वमस्मद्धितार्थं वै राजा भव महामते
इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः
तेभ्यो न्यवेदयं तत्र प्रतिज्ञां पितृगौरवात्
ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः
ततोऽहं प्राञ्जलिर्भूत्वा मातरं सम्प्रसादयम्
नाम्ब शन्तनुना जातः कौरवं वंशमुद्वहन्
प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः
विशेषतस्त्वदर्थं च प्रतिज्ञां कृतवानहम्
अहं प्रेष्यश्च दासश्च तवाम्ब सुतवत्सले
एवं तामनुनीयाहं मातरं जनमेव च
अहं च भ्रातृदारेषु तदा व्यासं महामुनिम्
सह मात्रा महाराज प्रसाद्य तमृषिं तदा
अपत्यार्थमयाचं वै प्रसादं कृतवांश्च सःSV-05-07-134-040ac
अन्धः करणहीनत्वान्न वै राजा पिता तव
राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः
स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः
मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम्
मयि जीवति राज्यं कस्सम्प्रशासेत्पुमानिह
माऽवमंस्था वचो मह्यं शममिच्छामि वस्सदा
न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव
मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च
श्रोतव्यं खलु वृद्धानां मा विशङ्कीर्वचो मम
नाशयिष्यसि मा सर्वमात्मानं पृथिवीपते