कर्णः-
राधेयोऽहमातिरथिः कर्णस्त्वामभिवादये
प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते
कुन्ती-
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता
नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः
कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः
कुन्तिराजस्य भवने पार्थस्त्वमसि पुत्रक
प्रकाशकर्मा तपनो योऽयं देवो विरोचनः
अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम्
कुण्डली बद्धकवचो देवगर्भश्श्रिया वृतः
जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे
स त्वं भ्रातॄनसम्बुद्ध्वा मोहद्यदुपसेवसे
धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः
एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये
यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी
भ्रातृभिर्निर्जितां पूर्वं भीमार्जुनयमादिभिः
आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष्व यौधिष्ठिरीं श्रियम्
अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम्
सौभ्रात्रेतदालक्ष्य सन्नमन्तामसाधवः
कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ
असाध्यं किं नु लोके स्याद्युवयोस्संहितात्मनोः
कर्ण शोभिष्यसे नूनं पञ्चभिर्भ्रातृभिर्वृतः
वेदैः परिवृतो ब्रह्मा यथा वेदाङ्गपञ्चमैः
उपपन्नो गुणैस्सर्वैर्ज्येष्ठश्श्रेष्ठेषु बन्धुषु
सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान्