वैशम्पायनः-
असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते
अभिगम्य पृथां क्षत्ता शनैश्शोचन्निवाब्रवीत्
विदुरः-
जानासि मे जीवपुत्रि भावं नित्यमविग्रहे
क्रोशतो न च गृह्णीते वचनं मे सुयोधनः
उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः
भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि
उपप्लाव्ये निविष्टोऽपि धर्मराजो युधिष्ठिरः
काङ्क्षते ज्ञातिभिस्सन्धिं बलवान्दुर्बलो यथा
राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति
मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते
जयद्रथस्य कर्णस्य तथा दुश्शासनस्य च
सौबलस्य च दुर्बुद्ध्या मिथो भेदः प्रवर्तते
अधर्मेण हि धर्मिष्ठं ह्रियते राज्यमीदृशम्
येषां तेषामयं धर्मस्सानुबन्धो भविष्यति
ह्रियमाणे बलाद्धर्मे कुरुभिः को न सञ्ज्वरेत्
असाम्ना केशवे याते समुदेष्यन्ति पाण्डवाः
ततः कुरूणामनयो भविता वीरनाशनः
चिन्तयन्न लभे निद्रामहस्सु च निशासु च
वैशम्पायनः-
श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम्
सा निश्श्वसन्ती दुःखार्ता मनसा विममर्श ह
कुन्ती-
धिगस्त्वर्थं यत्कृतेयं सुमहाञ्ज्ञातिसङ्क्षयः
वर्तते सुहृदां चैव युद्धेऽस्मिन्वै पराभवः
पाण्डवाश्चेदिपञ्चाला यादवाश्च समागताः
भारतैस्सह योत्स्यन्ति किं नु दुःखमतः परम्
पश्ये दोषं ध्रुवं युद्धे तथाऽयुद्धे पराभवम्
अधनस्य मृतं श्रेयो न हि ज्ञातिक्षयो जयः
इति मे चिन्तयन्त्या वै हृदि दुःखं प्रवर्तते
पितामहश्शान्तनव आचार्यश्च युधां पतिः
कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम
नाचार्यः कामवाञ्शिष्यैर्द्रोणोयुद्ध्येत जातुचित्
पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः
अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः
मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान्
महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः
कर्णस्सदा पाण्डवद्विट्तन्मे दहति सम्प्रति
आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति
प्रसादयितुमासाद्य दर्शयन्ती यथातथम्
तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ
आह्वानं मन्त्रसंयुक्तं वसन्त्याः पितृवेश्मनि
साऽहमन्तः पुरे राज्ञः कुन्तिभोजपुरस्कृता
चिन्तयन्ती बहुविधं हृदयेन विदूयता
बळाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम्
स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः
धात्र्या विस्रब्धया गुप्ता सखीजनवृता तदा
दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी
कथं नु सुकृतं मे स्यान्नापराधवती कथम्
भवेयमिति सञ्चिन्त्य ब्राह्मणं तं नमस्य च
कौतूहलात्सुतं लब्ध्वा बालिश्यादाचरं तदा
कन्या सती देवमर्कमासादयमहं ततः
योऽसौ कानीनगर्भो मे पुत्रवत्परिरक्षितः
कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा
वैशम्पायनः-
इति कुन्ती विनिश्चित्य कार्यनिश्चयमुत्तमम्
कार्यार्थमभिनिर्याय ययौ भागीरथीं प्रति
आत्मजस्य ततस्तस्य घृणिनस्सत्यसङ्गिनः
गङ्गातीरे पृथाऽश्रौषीत्तदाऽध्ययननिस्वनम्
प्राङ्मुखस्योर्ध्वबाहोस्सा पर्यतिष्ठत पृष्ठतः
जप्यावसाने कार्यार्थं प्रतीक्षन्ती तपस्विनी
अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवासनी
कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती
आपृष्ठतापाज्जप्त्वाऽसौ परिवृत्त्य यतव्रतः
दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः
यथान्यायं महातेजा मानी धर्मभृतां वरः