वैशम्पायनः-
कर्णस्य वचनं श्रुत्वा केशवः परवीरहा
उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा
श्रीभगवान्-
अपि त्वां लभते कर्ण राज्यलाभोपपादना
मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि
ध्रुवो जयः पाण्डवानामितीदं न संशयः कश्चन विद्यतेऽत्र
जयध्वजो दृश्यते पाण्डवस्य समुच्छ्रितो वानरराज उग्रः
दिव्या माया विहिता भौमनेन समुच्छ्रिता इन्द्रकेतुप्रकाशा
दिव्यानि भूतानि जयावहानि दृश्यन्ति चैवात्र भयानकानि
न सञ्जते शैलवनस्पतिभ्य ऊर्ध्वं तिर्यग्योजनमात्ररूपः
श्रीमान्ध्वजः कर्ण धनञ्जयस्य समुत्थितः पावकतुल्यरूपः
यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम्
ऐन्द्रमस्त्रं प्रकुर्वाणमुभौ चाप्यग्निमारुतौ
गाण्डीवस्य च निर्घोषं विष्फूर्जितमिवाशनेः
न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम्
जपहोमसमायुक्तं रक्षन्तं च महाचमूम्
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम्
न तदा भविता त्रेता न कृतं द्वापरं न च
दुश्शासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे
यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम्
प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम्
न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम्
सुयोधनं च राजानं सैन्धवं च जयद्रथम्
युद्धायापततस्तूर्णं वारितान्सव्यसाचिना
न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि सङ्ग्रामे माद्रीपुत्रौ महाबलौ
वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव
न तदा भविता त्रेता न कृतं द्वापरं न च
विगाढे शस्त्रसम्बाधे परवीररथारुजौ
ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम्
सौम्योऽयं वर्तते मासस्सुप्रापयवसेन्धनः
पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः
तिलको द्रवसम्पन्नो नात्युष्णशिशिरस्सुखः
सप्तमाच्चापि दिवसादमावास्या भविष्यति
सङ्ग्रामो युज्यतां तस्यां तामाहुश्शक्रदेवताम्
तथा राज्ञो वदेस्सर्वान्ये युद्धायाभ्युपागताः
यद्वो मनीषितं तद्वै सर्वं सम्पादयाम्यहम्
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम्
राजानो राजपुत्राश्च दुर्योधनवशानुगाः