कर्णः-
असंशयं सौहृदान्मे प्रणयाच्चाथ केशव
सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च
सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः
निश्चयाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे
कन्या गर्भं समाधत्त भास्करान्मां जनार्दन
आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत्
सोस्मि कृष्ण तथाजातः पाण्डोः पुत्रोऽस्मि धर्मतः
कुन्त्या त्वहमपाकीर्णो यथा न कुलजस्तथा
सूतो हि मामधिरथो दृष्ट्वैवाम्भसि वा प्लृतम्
राधायै स च मां प्रादात्सौहार्दान्मधुसूदन
मत्स्नेहाच्चैव राधायास् सद्यः क्षीरमवातरत्
सा मे मूत्रं पुरीषं च प्रतिजग्राह केशव
तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम्
धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः
तथा मामभिजानाति सूतश्चाधिरथस्सुतम्
पितरं चाभिजानामि तमहं सौहृदात्सदा
स हि मे जातकर्मादि कारयामास धर्मतः
शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन
नाम वै वसुषेणेति कारयामास वै द्विजैः
भार्याश्चोढा मम प्राप्ते यौवने तत्परिग्रहात्
तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन
तासु मे हृदयं कृष्ण सञ्जातं कामबन्धनम्
न पृथिव्या सकलया न सुवर्णस्य राशिभिः
हर्षाद्भयाद्वा गोविन्द मिथ्या कर्तुं तदुत्सहे
धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात्
मया त्रयोदशसमा भुक्तं राज्यमकण्टकम्
इष्टं च बहुभिर्यज्ञैस्सहसूतैर्मयाऽसकृत्
आवाहाश्च विवाहाश्च सहसूतैर्मया कृताः
मां च कृष्ण समासाद्य कृतश्शस्त्रसमुद्यमः
दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः
तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत
वृतवान्परमं कृष्ण प्रतीघं सव्यसाचिनः
वधाद्बन्धाद्भयाद्वापि लोभाद्वाऽपि जनार्दन
अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः
यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना
अकीर्तिस्स्याद्धृषीकेश मम पार्थस्य चोभयोः
असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन
सर्वं च पाण्डवाः कुर्युस्त्वद्वशा ह्यद्य पाण्डवाः
मन्त्रस्य नियमं कुर्यास्त्वमत्र मधुसूदन
एतदत्र हितं मन्ये सर्वयादवनन्दन
यदि जानाति मां राजा धर्मात्मा संशितव्रतः
कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति
प्राप्य चापि महद्राज्यं तदहं मधुसूदन
स्फीतं दुर्योधनायैव सम्प्रदद्यामरिन्दम
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः
नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः
पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः
नकुलस्सहदेवश्च द्रौपदेयाश्च माधव
धृष्टद्युम्नश्च पाञ्चल्यस्सात्यकिश्च महारथः
उत्तमौजा युधामन्युस्सत्यधर्मा च सौमकिः
चैद्यश्च चेकितानश्च शिखण्डी चापराजितः
इन्द्रगोपकवर्णाश्वाः केकया भ्रातरस्तथा
इन्द्रायुधसवर्णश्वः कुन्तिभोजो महामनाः
मातुलो भीमसेनस्य श्येनजिच्च महारथः
शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन
महानयं कृष्ण कृतः क्षत्रस्य समुदागमः
राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु
धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति
अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन
आध्वर्यवं च ते कृष्ण ऋतावस्मिन्भविष्यति
होता चैवात्र बीभत्सुस्सन्नद्धस्स कपिध्वजः
गाण्डीवं स्रुक् तथा चाज्यं वीर्यं पुंसां भविष्यति
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव
मन्त्रास्तत्र भविष्यन्ति प्रयुक्तास्सव्यसाचिना
अनुजातश्च पितरमधिको वा पराक्रमे
ग्रावस्तोत्रं स सौभद्रस्सम्यक् तत्र करिष्यति
उद्गातात्र पुनर्भीमः प्रस्तोता च महाबलः
विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे
स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः
जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति
शङ्खशब्दास्समुरजा भेर्यश्च मधुसूदन
उत्कृष्टस्सिंहनादश्च सुब्रह्मण्यो भविष्यति
नकुलस्सहदेवश्च माद्रीपुत्रौ यशस्विनौ
शामित्रं तौ महावीर्यौ सम्यक् तत्र करिष्यतः
मैत्रावरुण आग्नीध्रो महावीर्यौ भविष्यतः
कल्माषदण्डा गोविन्द विमला रथपङ्क्तयः
यूपास्समुपकल्पन्तामस्मिन्यज्ञे जनार्दन
कर्णिनालीकनाराचा वत्सदन्ताश्च बर्हिणाः
तोमरास्सोमकलशाः पवित्राणि धनूंषि च
असयोऽत्र कपालानि पुरोडाशाश्शिरांसि च
हविस्तु रुधिरं कृष्ण तस्मिन्यज्ञे भविष्यति
इध्माः परिधयश्चैव शक्तयो विमला गदाः
सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः
इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना
महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः
प्रतिप्रास्थानिकं कर्म सात्यकिस्तु करिष्यति
दीक्षितो धार्तराष्ट्रश्च पत्नी चास्य महाचमूः
घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः
अतिरात्रे महाबाहो वितते यज्ञकर्मणि
दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान्
वैताने कर्मणि तते जातो यः कृष्ण पावकात्
यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान्
प्रियार्थं धार्तराष्ट्रस्य तेन तप्स्येऽद्य कर्मणा
यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना
पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति
दुश्शासनस्य रुधिरं यदा पास्यति पाण्डवः
आनर्दन्नन्दतस्सम्यक् तदा सत्या भविष्यति
यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः
तदा यज्ञावसानं तद्भविष्यति जनार्दन
दुर्योधनं यदा हन्ता भीमसेनो महाबलः
तदा समाप्यते यज्ञो धार्तराष्ट्रस्य माधव
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य सङ्गताः
हतेश्वरा हतसुता हतपौत्राश्च केशव
गान्धार्या सह रोदन्त्या श्वगृध्रशकुनाकुले
स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन
विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ
वृथा मृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन
शस्त्रेण निधनं गच्छेत्समग्रं क्षत्रमण्डलम्
करुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव
तदत्र पुण्डरीकाक्ष विधत्स्व यदनन्तरम्
यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात्
यावत्स्थास्यन्ति गिरयस्सरितश्च जनार्दन
तावत्कीर्तिभवश्शब्दश्शाश्वतोयं भविष्यति
ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम्
समागमेषु वार्ष्णेय क्षत्रियाणां यशोधनम्
समुपानय कौन्तेयं युद्धाय मम केशव
मन्त्रसंवरणं कुर्वन्नित्यमेव परन्तप