वैशम्पायनः-
कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ
दुर्योधनमिदं वाक्यमूचतुश्शासनातिगम्
भीष्मद्रोणौ-
श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य सन्निधौ
वाक्यमर्थवदत्युग्रमुक्तं धर्म्यमनुत्तमम्
तत्करिष्यन्ति कौन्तेया वासुदेवस्य सम्मतम्
न हि ते जातु शाम्येरन्नृते राज्येन कौरव
क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा
सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव
कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्चयम्
रौद्रमस्त्रं च गाण्डीवं रथं च ध्वजमेव च
नकुलं सहदेवं च बलवीर्यमदोद्धतौ
सहायं वासुदेवं च न क्षाम्यति युधिष्ठिरः
प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता
विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः
दानवा घोरकर्माणो निवातकवचा युधि
रौद्रमस्त्रं समादाय दग्धा वानरकेतुना
कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी
मोक्षितो घोषयात्रायां पर्याप्तं तन्निदर्शनम्
प्रशाम्य भरतश्रेष्ठ भ्रातृभिस्सह पाण्डवैः
रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरस्थिताम्
ज्येष्ठो भ्राता धर्मशीलो वत्सलश्श्लक्ष्णवाक्छुचिः
तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम्
दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः
प्रसन्नो भ्रातृभिश्शीघ्रं कृता शान्तिः कुलस्य च
तमभ्येत्य सहामात्यं परिष्वज्य नृपात्मजम्
अभिवादय राजानं यथापूर्वमरिन्दम
अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः
प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः
सिंहस्कन्धोरुबाहुभ्यां वृत्तायतमहाभुजः
परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः
कम्बुग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः
अभिवादयतां पार्थः कुन्तीपुत्रो धनञ्जयः
आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि
तौ च त्वां गुरुवत्प्रोम्णा पूजया प्रत्युदीयताम्
मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः
सङ्गच्छ भ्रातृभिस्सार्धं मानं सन्त्यज्य पार्थिव
प्रशाधि पृथिवीं कृत्स्नां ततस्त्वं भ्रातृभिस्सह
समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम्
अलं युद्धेन राजेन्द्र सुहृदां शृणु भारत
ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते
ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः
उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः
विशेषत इहास्माकं निमित्तानि निवेशने
उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव
वाहनान्यप्रहृष्टानि रुदन्तीव विशाम्पते
गृध्राश्च पर्युपासन्ते सैन्यानि च समन्ततः
नगरं न यथापूर्वं तथा राजनिवेशनम्
शिवाश्चाशिवनिर्घोषा दीप्तास्सेवन्ति वै दिशं
कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम्
त्वय्यायत्तो महाबाहो शमो व्यायाम एव च
न चेत्करिष्यसि वचस्सुहृदामरिकर्शन
तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम्
भीमस्य च महानादं नदतश्शुष्मिणो रणे
श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्स्वनम्
यद्येतदपसव्यं ते वचो मम भविष्यति