विदुला-
अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि
निहीनसेवितं मार्गं गमिष्यस्यचिरादिव
यो हि तेजो यथाशक्ति न दर्शयति विक्रमात्
क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः
अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च
नैव सम्प्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम्
सन्ति वै सिन्धुराजस्य सन्तुष्टा बहवो जनाः
दौर्बल्यादासते मूढा व्यसनौघप्रतीक्षिणः
सहायोपचयं दृष्ट्वा आगच्छेयुस्ततस्ततः
अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम्
तैः कृत्वा सहसा यात्रां गिरिदुर्गालयैश्चर
काले व्यसनमाकाङ्क्षन्नैवायमजरामरः
सञ्जयो नामतश्च त्वं न च पश्याम तत्त्वयि
अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः
सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत्
अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति
तस्य स्मरन्ती वचनमाशंसे विजयं तव
तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनः पुनः
यस्य युद्धार्थमुद्युक्ता भवत्यवहिता मतिः
तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः
समृद्धिरसमृद्धिर्वा पूर्वेषां मम सञ्जय
एवं विद्वान्युद्धमना भव मा प्रत्युपाहर
नातः पापीयसीं काञ्चिदवस्थां शम्बरोऽब्रवीत्
यत्र नैवोद्यतः प्रातर्भोजनं प्रतिदृश्यते
पतिपुत्रवधादेतत्परमं दुःखमब्रवीत्
दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत्
अहं महाकुले जाता ह्रदाद्ध्रदमिवागता
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता
महार्हमाल्याभरणां सुमृष्टाम्बरवासिनीम्
पुरा दृष्ट्वा सुहृद्वर्गो मामपश्यत्सुदुःखिताम्
यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बलाम्
न तदा जीवितेनार्थो भविता तव सञ्जय
दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान्
अवृत्त्याऽस्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते
यदि कृत्यं न पश्यामि तवाद्याहं यथा पुरा
श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे
नेति चेद्ब्राह्मणं ब्रूयां दीर्येत हृदयं मम
न ह्ययं न च मे भर्ता नेति ब्राह्मणमुक्तवान्
वयमाश्रयणीयास्स्म नाश्रितारः परस्य च
अन्यानाश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम्
अपारे भव नः पारमप्लवे भव नः प्लवः
कुरुष्व स्थानमस्थाने मृतान्सञ्जीवयस्व नः
सर्वे ते शत्रवस्सह्या न चेज्जीवितुमिच्छसि
अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे
निर्विण्णात्मा हतमना मुञ्चेमां जीविकां पुनः
एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम्
इन्द्रो वृत्रवधेनैव महेन्द्रस्समपद्यत
माहेन्द्रप्रग्रहं लेभे लोकानां चेश्वरोऽभवत्
नाम विश्राव्य सङ्ख्ये वै शत्रूनाहूय दंशितान्
सेनाग्रं चापि विद्राव्य हत्वा शत्रुं परन्तप
यदैव लभते वीरस्सुयुद्धेन महद्यशः
तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च
त्यक्त्वात्मानं रणे दक्षं शूरं पुरुषमानिनाम्
अवशाः पूजयन्ति स्म सर्वकामसमृद्धिभिः
राज्यस्याप्यस्य विभ्रंशस्संशयो जीवितस्य वा
प्रलब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः
स्वर्गद्वारोपमं राज्यमथवाऽप्यमृतोपमम्
भुङ्क्ष्व युद्धेन ते शत्रूञ्जित्वा तु रणमूर्धनि
नियच्छन्नितरान्वर्णान्विनयन्सर्वदुष्कृतान्
रुद्धमेकायने मत्वा पतोल्मुक इवारिषु
जहि शत्रून्रणे राजन्स्वधर्मनुपालय
मा त्वा पश्येत्सुकृपणं शत्रुश्श्रीमान्कदाचन
अस्मदीयैश्च शोचद्भिर्नदद्भिश्च परैर्भृशम्
अपि त्वां नानुपश्येयं दीनदीनमिव स्थितम्
उष्य सौवीरकन्याभिश्श्लाघ्यस्स्वार्थैर्यथा पुरा
मा च सैन्धवकन्यानामपहासवशं गमः
युवा रूपेण सम्पन्नो विद्ययाऽभिजनेन च
कस्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः
वोढव्ये धुर्यनडुवन्मन्ये मरणमेव तत्
यदि त्वामत्र पश्यामि परस्य प्रियवादिनम्
पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे
नास्मिञ्जातु कुले जातो गच्छेद्योऽन्यस्य पृष्ठतः
न त्वं परस्यानुचरस्तात जीवितुमर्हसि
अहं हि क्षत्रहृदयं वेद यद्भूरिशाश्वतम्
पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि
शाश्वतं चाव्ययं चैव प्रजापतिविनिर्मितम्
यो वै कश्चित्कुले जातः क्षत्रियः क्षत्रधर्मवित्
भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित्
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्
अप्यपर्वणि भज्येत न नमेदिह कस्यचित्
मातङ्गो मत्त इव च परीयात्स महामनाः
ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च सञ्जय
नियच्छन्नितरान्वर्णान्विमृशन्सर्वमुन्नतः
ससहायोऽसहायो वा यावज्जीवं तथा भवेत्