कुन्ती-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
विदुलायाश्च संवादं पुत्रस्य च परन्तप
ततश्श्रेयश्च भूयश्च यथावद्वक्तुमर्हसि
यशस्विनी मन्युमती कुलजाता विभाविनी
क्षत्रधर्मरता नित्यं विदुला दीर्घदर्शिनी
विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता
विदुला नाम सा साध्वी जगर्हे पुत्रमौरसम्
निर्जितं सिन्धुराजेन शयानं दीनचेतसम्
अनन्दनमधर्मज्ञं द्विषतां हर्षवर्धनम्
विदुला-
कुनन्दन क्व वा जातो द्विषतां हर्षवर्धन
न मया त्वं न पित्रा च जातः क्वाभ्यागतोह्यसि
निर्मन्युश्चाप्यसङ्ख्येयः पुरुषः क्लीबसाधनः
यावज्जीवं निराशोऽसि कल्याणाय धुरं वह
माऽऽत्मानमवमन्यस्व मैवमल्पेन बीभरः
मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंहर
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः
अमित्रान्नन्दयन्सर्वान्मित्राणां चापि शोकदः
सुपूरा वै कुनदिका सुपूरो मुषिकाञ्जलिः
सुसन्तोषः कापुरुषस्स्वल्पकेनैव तुष्यति
अप्यहेरारुजन्दंष्ट्रां मा चैव निधनं व्रज
अपि वा संशयं प्राप्य जीवितेऽपि पराक्रमे
अप्यरेश्श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमम्
विवदन्वाऽथवा तूष्णीं व्योम्नि वा परिशङ्कितः
त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा
उत्तिष्ठ हे कापुरुष मा स्वाप्सीश्शत्रुनिर्जितः
माऽस्तं गमस्त्वं कृपणो विश्रूयस्व स्वकर्मणा
मा मध्ये मा जघन्ये त्वं माऽधो भूस्तिष्ठ चोर्जितः
अलातं तिन्दुकस्येव मुहूर्तमपि विज्वल
मा तुषाग्निरिवानर्चिर्धूमायेत नरश्चिरम्
मुहूर्तं ज्वलितं श्रेयो न च धूमायितं चिरम्
मा ह स्म कस्यचिद्गेहे जनी राज्ञः खरी मृदुः
कृत्वा मानुष्यकं कर्म धृष्टात्मा यावदुत्तरम्
धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हयेत्
अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः
आनन्तर्यं चारभन्ते न प्राणपरिरक्षणाम्
उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम्
धर्मं पुत्राग्रतः कृत्वा किन्निमित्तं हि जीवसि
इष्टापूर्तं च ते कृत्वा कीर्तिश्च सकला हता
विच्छिन्नं भोगमूलं ते किन्निमित्तं हि जीवसि
शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता
विपरिच्छिन्नमूलोऽपि न विषीदेत्कथञ्चन
उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन्
कुरु सत्वं च मानं च विद्धि पौरुषमात्मनः
उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव च
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम्
राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान्
दाने तपसि शौर्ये वा यस्य न प्रथितं यशः
विद्यायामर्थलाभे वा मातुरुच्चार एव सः
श्रुतेन तपसा वाऽपि श्रिया वा विक्रमेण वा
जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान्
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि
नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम्
यदेनमभिनन्देयुरमित्राः पुरुषं कृशम्
लोकस्य समवज्ञातं निहीनासनवाससम्
अहो लाभकरं हीनमल्पजीवनमल्पकम्
नेदृशं बन्धुमासाद्य बान्धवस्सुखमेधते
अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः
सर्वकामरसैर्हीनास्स्थानभ्रष्टा अकिञ्चनाः
अवर्णकारिणं सत्सु कुलवंशस्य नाशनम्
कलिं पुत्रप्रवादेन सञ्जय त्वामजीजनम्
निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम्
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम्
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान्
ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम्
एतावानेव पुरुषो यदमर्षी यदक्षमी
क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान्
सन्तोषो वै श्रियं हन्ति तथाऽनुक्रोश एव च
अनुत्थानभये चोभे निरीहो नाश्नुते महत्
एभ्यो निकृतिपाशेभ्यः प्रमुञ्चात्मानमात्मना
आयसं हृदयं कृत्वा मृगयस्व पुरं स्वकम्
परं विषहते यस्मात्तस्मात्पुरुष उच्यते
तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति
शूरस्योर्जितसत्वस्य सिंहविक्रान्तचारिणः
दिष्टभावं गतस्यापि विषये मोदते प्रजा
य आत्मनः प्रियसुखे हित्वा मृगयतेऽसुखम्
अमित्राणामथो हर्षमादधात्यचिरेण सः
सञ्जयः-
किं नु ते मामपश्यन्त्याः पृथिव्याऽपि च सर्वया
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा
विदुला-
परैर्विहन्यमानस्य जीवितेनापि किं फलम्
निर्मन्युकानां ये लोका द्विषन्तस्तानवाप्नुयुः
ये वा धृतात्मनां लोकास्सुहृदस्तान्व्रजन्तु नः
भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम्
कृपणानामनाथानां मा वृत्तिमनुवर्तिथाः
अनु त्वां तात जीवन्तु ब्राह्मणास्सुहृदस्तथा
पर्जन्यमिव भूतानि देवा इव शतक्रतुम्
यमाजीवन्ति पुरुषं सर्वभूतानि सञ्जय
पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत्
यस्य शूरस्य विक्रान्तैर्वर्धन्ते बान्धवास्सुखम्
त्रिदशा इव शक्रस्य साधु तस्येह जीवितम्
स्वबाहुबलमाश्रित्य यो हि जीवति मानवः
स लोके लभते कीर्तिं परत्र च शुभां गतिम्