वैशम्पायनः-
प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च
आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि
श्रीभगवान्-
उक्तं बहुविधं वाक्यं स्पृहणीयं सहेतुकम्
ऋषिभिश्चैव च मया न चासौ तद्गृहीतवान्
कालपक्वमिदं सर्वं सुयोधनवशानुगम्
सर्वक्षत्रं क्षणेनैव दह्यते पार्थवह्निना
आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति
किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया
तद्ब्रूहि त्वं महाप्रज्ञे शुश्रूषे वचनं तव
कुन्ती-
ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम्
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः
अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते
अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टस्स्वयम्भुवा
उरसः क्षत्रियास्सृष्टा बाहुवीर्योपजीविनः
क्रूराय कर्मणे नित्यं प्रजानां परिपालने
श्रृणु चात्रोपमामेकां या वृद्धेभ्यश्श्रुता मया
मुचुकुन्दस्य राजर्षेरददत्पृथिवीमिमाम्
पुरा वैश्रवणः प्रीतो न चासौ तद्गृहीतवान्
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये
ततो वैश्रवणः प्रीतो विस्मितस्समपद्यत
मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुन्धराम्
बाहुवीर्यार्जितां सम्यक् क्षत्रधर्ममनुव्रतः
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः
चतुर्थं तस्य धर्मस्य राजा विन्देत माधव
राजा चरति चेद्धर्मं देवत्वायैव कल्पते
स चेदधर्मं चरति नरकायैव गच्छति
दण्डनीतिस्स्वधर्मेण चातुर्वर्ण्यं नियच्छति
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च नियच्छति
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते
तदा कृतयुगं नाम कालश्श्रेष्ठः प्रवर्तते
कालो वा कारणं राज्ञो राजा वा कालकारणम्
इति ते संशयो मा भूद्राजा कालस्य कारणम्
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च
युगस्य च चतुर्थस्य राजा भवति कारणम्
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्रुते
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते
ततो वसति दुष्कर्मा नरके शाश्वतीस्समाः
राजदोषेण हि जगत्स्पृश्यते जगतस्स च
राजधर्मानवेक्षस्व पितृपैतामहोचितान्
नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि
न हि वैक्लब्यसंस्पृष्ट आनृशंस्ये व्यवस्थितः
प्रजापालनसम्भूतं फलं किञ्चन लभ्यते
न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः
प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया
यज्ञो दानं तपश्शौर्यं प्रज्ञा सन्तानमेव च
माहात्म्यं बलमोजश्च नित्यमाशंसितं मया
नित्यं स्वाहा स्वधा नित्यं दद्युर्मानुषदेवताः
दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताश्शुभाः
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च
दानमध्ययनं यज्ञः प्रजानां परिपालनम्
एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः
ते न वैद्याः कुले जाता अवृत्त्या तात पीडिताः
यत्र दानपतिं शूरं क्षुधिताः पृथिवीचराः
प्राप्य तुष्टाः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः
दानेनान्यं बलेनान्यं तथा सूनृतयाऽपरम्
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः
ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत्
वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान्
भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते
क्षत्रियोऽसि क्षतात्राता बाहुवीर्योपजीविता
पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर
साम्ना भेदेन दानेन दण्डेनाथ नयेन वा
इतो दुःखतरं किं नु यदहं दीनबान्धवा
परपिण्डमुदीक्षामि त्वां सूत्वा मित्रनन्दन
युध्यस्व राजधर्मेण मा निमञ्जेः पितामहान्
मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिं