वैशम्पायनः-
विदुरेणैवमुक्ते तु केशवः परपूगहा
दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान्
श्रीभगवान्-
एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन
परिभूय सुदुर्बुद्धे ग्रहीतुं मां चिकीर्षसि
वैशम्पायनः-
इहैव पाण्डवास्सर्वे तथैवान्धकवृष्णयः
इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः
एवमुक्त्वा जाहासोच्चैः केशवः परवीरहा
तस्य संस्मयतश्शौरेर्विद्युद्रूपा महात्मनः
युगपच्च विनिष्पेतुस्साक्षात्सर्वास्तु देवताः
अङ्गुष्ठमात्रास्त्रिदशा बभूवुः पावकार्चिषः
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत्
लोकपाला भुजेष्वासन्नग्निरास्यादजायत
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च
बभूवुश्चैव यक्षाश्च गन्धर्वोरगराक्षसाः
प्रादुरास्तां तदा दोर्भ्यां सङ्कर्षणधनञ्जयौ
दक्षिणे चार्जुनो धन्वी हली रामश्च सव्यतः
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः
अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः
अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः
शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च
नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः
नेत्राभ्यां नासिकाभ्यां च श्रोत्राभ्यां च समन्ततः
प्रादुरासन्महारौद्रास्सधूमाः पावकार्चिषः
रोमकूपेषु च तथा सूर्यस्येव मरीचयः
ते दृष्ट्वा परमात्मानं केशवस्य महात्मनः
न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः
ऋते द्रोणं च भीष्मं च विदुरं च महामतिम्
सञ्जयं धृतराष्ट्रं च ऋषींश्चैव तपोधनान्
प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः
तत्राश्चर्यमभूद्राजन्धृतराष्ट्रस्स्वचक्षुषी
लब्धवान्वासुदेवस्य विश्वरूपदिदृक्षया
लब्धचक्षुषमासीनं धृतराष्ट्रं नराधिपाः
विस्मिता ऋषिभिस्सार्धं तुष्टुवुर्मधुसूदनम्
तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले
देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च
धृतराष्ट्रः-
त्वमेव पुण्डरीकाक्ष सर्वस्य जगतो प्रभुः
तस्मान्मे यादवश्रेष्ठ प्रसादं कर्तुमर्हसि
देवदेव महायोगिन्वासुदेव जनार्दन
भगवन्मम नेत्राभ्यामन्तर्धानं वृणे पुनः
वैशम्पायनः-
भवन्तं दृष्टवानस्मि नान्यं द्रष्टुमिहोत्सहे
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः
श्रीभगवान्-
अदृश्यमाने नेत्रे द्वे भवेतां कुरुनन्दन
वैशम्पायनः-
चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे
विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ
ततस्स पुरुषव्याघ्रस्सञ्जहार वपुस्स्वकम्
तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिन्दमः
ततस्सात्यकिमादाय पाणौ विदुरमेव च
ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः
ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः
तस्मिन्कोलाहले वृत्ते तदद्भुतमिवाभवत्
तं प्रस्थितमभिप्रेक्ष्य कौरवास्सह राजभिः
अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतम्
अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम्
निश्चक्राम ततश्शौरिस्सधूम इव पावकः
ततो रथेन शुभ्रेण महता किङ्किणीकिना
हेमजालविचित्रेण लघुना मेघनादिना
सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना
सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः
तथैव रथमास्थाय कृतवर्मा महारथः
वृष्णीनां सम्मतो वीरो हार्दिक्यस्समदृश्यत
उपस्थितरथं शौरिं प्रयास्यन्तमरिन्दमम्
धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत
धृतराष्ट्रः-
यावद्बलं मे पुत्रेषु पश्यस्येतज्जनार्दन
प्रत्यक्षं ते न ते किञ्चित्परोक्षं शत्रुकर्शन
कुरूणां शममिच्छन्तं यतमानं च केशव
विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि
न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव
ज्ञातमेव हिते वाक्यं यन्मयोक्तस्सुयोधनः
जानन्ति कुरवस्सर्वे राजानश्चैव पार्थिवाः
शमे प्रयतमानं मां सर्वयत्नेन माधव
वैशम्पायनः-
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनेश्वरम्
द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम्
श्रीभगवान्-
प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि
यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः
वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः
आपृच्छे भवतस्सर्वान्गमिष्यामि युधिष्ठिरम्
वैशम्पायनः-
आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभ
अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः
भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः
अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः
ततो रथेन शुभ्रेण महता किङ्किणीकिना
कुरूणां पश्यतां द्रष्टुं स्वसारं स पितुर्ययौ