वैशम्पायनः-
कृष्णस्य तु वचश्श्रुत्वा धृतराष्ट्रो जनेश्वरः
विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत
धृतराष्ट्रः-
गच्छ तात महाप्राज्ञ गान्धारीं दीर्घदर्शिनीम्
आनयेह तया सार्धमनुनेष्यामि दुर्मतिम्
यदि सा न दुरात्मानं शमयेद्दुष्टचेतसम्
अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम्
अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत्
दुर्बुद्धेर्दुस्सहायस्य समक्षं ब्रुवती वचः
अपि नो व्यसनं घोरं दुर्योधनकृतं महत्
शमयेच्चिररात्राय योगक्षेमवदव्ययम्
वैशम्पायनः-
राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम्
आनयामास गान्धारीं धृतराष्ट्रस्य शासनात्
धृतराष्ट्रः-
एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः
ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति
अशिष्टवदमर्यादः पापैस्सह दुरात्मवान्
सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः
गान्धारी-
वैशम्पायनः-
सा भर्तृवचनं श्रुत्वा राजपुत्री यशस्विनी
अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत्
आनयैनं सुतं क्षिप्रं राज्यकामुकमातुरम्
नहि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना
आप्तुमाप्तं तथाऽपीदमविनीतेन सर्वथा
त्वमेवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः
यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे
स एष काममन्युभ्यां प्रलब्धो लोभमास्थितः
अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात्
राष्ट्रप्रदाने मूढस्य बालिशस्य दुरात्मनः
दुर्योधनस्य लुब्धस्य धृतराष्ट्रोऽश्नुते फलम्
कथं हि स्वजने भेदमुपेक्षेत महीपतिः
भिन्नं हि स्वजनेन त्वां प्रहसिष्यन्ति शत्रवः
या हि शक्यो महाराज साम्ना भेदेन वा पुनः
निस्तर्तुमापदस्स्वेषु दण्डं कस्तत्र पातयेत्
वैशम्पायनः-
शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम्
मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः
स मातुर्वचनाकाङ्क्षी प्रविवेश पुनस्सभाम्
अतिताम्रेक्षणः क्रोधान्निश्वसन्निव पन्नगः
तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम्
विगर्हमाणा गान्धारी शमार्थं वाक्यमब्रवीत्
गान्धारी-
दुर्योधन निबोधेदं वचनं मम पुत्रक
हितं ते सानुबन्धस्य तथाऽऽयत्यां सुखोदयम्
दुर्योधन यदाह त्वां पिता भरतसत्तम
भीष्मो द्रोणः कृपः क्षत्ता सुहृदां कुरु तद्वचः
भीष्मस्य तु पितुश्चैव मम चापचितिः कृता
भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया
न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते
अवाप्तुं रक्षितुं वाऽपि भोक्तुं भरतसत्तम
न ह्यवश्येन्द्रियो राज्यमश्नीयाद्दीर्घमन्तरम्
विजितात्मा तु मेधावी स राज्यमभिपालयेत्
कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः
तौ तु शत्रू विनिर्जित्य राजा विजयते महीम्
लोकेश्वरभिभूतं हि महदेतद्दुरात्मभिः
राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम्
इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः
इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः
अविधेयानि हीमानि व्यापादयितुमप्यलम्
अविधेया इवादान्ता हयाः पथिषु सारथिम्
अविजित्य य आत्मानममात्यान्विजिगीषते
अजितात्माऽजितामात्यस्सोऽवशः परिहीयते
आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत्
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु
परीक्ष्यकारिणं धीरमत्यर्थं श्रीर्निषेवते
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ
कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः
याभ्यां हि देवास्स्वर्यातुस्स्वर्गस्यापिदधुर्मुखम्
बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ
कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः
सम्यग्विजेतुं यो वेद स महीमभिजायते
सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः
ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम्
कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते
स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत
एकीभूतैर्महाप्राज्ञैश्शूरैररिनिबर्हणैः
पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितस्सुखी
यथा भीष्मश्शान्तनवो द्रोणश्चापि महायशाः
आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ
प्रपद्यष्व महाबाहुं कृष्णमक्लिष्टकारिणम्
प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः
सुहृदामर्थकामानां यो न तिष्ठति शासने
प्राज्ञानां कृतविद्यानां स नरश्शत्रुनन्दनः
न युद्धे तात कल्याणं न धर्मार्थौ कुतस्सुखम्
न चापि विजयो नित्यं मा युद्धे चेत आधिथाः
भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च
दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भतैररिन्दम
तस्य चैतत्प्रदानस्य फलमद्यानुपश्यसि
यद्भुङ्क्षे पृथिवीं कृत्स्नां शूरैर्निहतकण्टकाम्
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम
यदीच्छसि सहामात्यो भोक्तुमर्धमहीमिमाम्
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम्
सुहृदां वचने तिष्ठन्यशः प्राप्स्यसि भारत
श्रीमद्भिरात्मवद्भिस्तैर्बुद्धिमद्भिर्जितेन्द्रियैः
पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतस्सुखात्
निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम्
स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ
अलं महान्निकारोऽयं त्रयोदशसमाः कृताः
शमयैनं महाप्राज्ञ कामक्रोधसमेधितम्
न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति
सूतपुत्रो दृढक्रोधो भ्राता दुश्शासनश्च ते
भीष्मे द्रोणे कृपे कर्णे भीमसेने धनञ्जये
धृष्टद्युम्ने च सङ्क्रुद्धे न स्युस्सर्वाः प्रजा ध्रुवम्
अमर्षवशमापन्नो मा कुरूंस्तात जीघनः
एषा हि पृथिवी कृत्स्ना मा गमत्त्वत्कृते वधम्
यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः
योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते
समं हि राज्यं प्रीतिश्च स्थानं हि विदितात्मनाम्
पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः
धृतराष्ट्रः-
राजपिण्डभयादेते यदि हास्यन्ति जीवितम्
न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम्
न लोभादर्थसम्पत्तिर्नराणामिह दृश्यते
तदलं तात लोभेन प्रशाम्य भरतर्षभ