वैशम्पायनः-
श्रुत्वा दुर्योधनो वाक्यं हेतुमत्कुरुसंसदि
प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम्
दुर्योधनः-
प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव
मामेव हि विशेषेण विभाष्य परिगर्हसे
भक्तिवादेन पार्थानामकस्मान्मधुसूदन
भवान्गर्हयते नित्यं किं समीक्ष्य बलाबलम्
भवान्क्षत्ता च राजा च आचार्यो वा पितामहः
मामेव परिगर्हन्ते नान्यं कञ्चन पार्थिवम्
न चाहं लक्षये कञ्चिद्व्यभिचारमिहात्मनः
अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः
न चाहं कञ्चिदत्यर्थमपराधमरिन्दम
विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव
प्रियाभ्युपगते द्यूते पाण्डवा मधूसूदन
जिताश्शकुनिना राज्यं तत्र किं मम दुष्कृतम्
यत्पुनर्द्रविणं किञ्चित्तत्राजीयन्त पाण्डवाः
तेभ्य एवाभ्यनुज्ञातं तत्तद मधुसूदन
अपराधो न चास्माकं यत्ते ह्यक्षैपराजिताः
अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम्
केन वाऽप्यवमानेन विरुद्ध्यन्त्यरिभिस्सह
अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत्
किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि
धार्तराष्ट्राञ्जिघांसन्ति पाण्डवास्सृञ्जयैस्सह
न चापि वयमुग्रेण कर्मणा वचनेन वा
वित्रस्ताः प्रणमामेह भयादपि शतक्रतोः
न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम्
उत्सहेत युधा जेतुं यो नश्शत्रुनिबर्हण
न हि भीष्मकृपद्रोणास्सकर्णा मधुसूदन
देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः
स्वधर्ममनुपश्यन्तो यदि माधव संयुगे
अस्त्रेण निधनं काले प्राप्स्यामस्स्वर्ग्यमेव तत्
मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन
यच्छयीमहि सङ्ग्रामे शरतल्पगता वयम्
ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे
अप्रणम्यैव शत्रूणां नातस्तप्स्यन्ति माधव
कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन्
भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कस्यचित्
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्
अप्यपर्वणि भज्येत न नमेदिह कस्यचित्
इति मातङ्गवचनं परीप्सन्ति हितेप्सवः
धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः
अचिन्तयन्कञ्चिदन्यं यावज्जीवं तथा चरेत्
एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा
राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराऽभवत्
न स लभ्यः पुनर्जातु मयि जीवति केशव
यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन
न्यस्तशस्त्रा वयं ते वाऽप्युपजीवाम भारत
अप्रदेयं पुरा दत्तं राज्यं परवतो मम
अज्ञानाद्वा भयाद्वाऽपि मयि बाले जनार्दन
न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन
ध्रियमाणे महाबाहो मयि सम्प्रति केशव
यावद्धि तीक्ष्णया सूच्या विद्ध्येदग्रेण माधव
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति