वैशम्पायनः-
धृतराष्ट्रवचश्श्रुत्वा भीष्मद्रोणौ समेत्य तौ
दुर्योधनमिदं वाक्यमूचतुश्शासनातिगम्
भीष्मद्रोणौ-
यावत्कृष्णावसन्नद्धौ यावत्तिष्ठति गाण्डिवम्
यावद्धौम्यो न सेनाग्नौ जुहोतीह द्विषद्बलम्
यावन्न प्रेक्षते क्रुद्धस्सेनां तव युधिष्ठिरः
ह्रीनिषेवो महेष्वासस्तावच्छाम्यतु वैशसम्
यावन्न दृश्यते पार्थस्स्वेष्वनीकेष्ववस्थितः
भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम्
यावन्न चरते मार्गान्पृतनामभिहर्षयन्
भीमसेनो गदापाणिस्तावत्संशाम्य पाण्डवैः
यावन्न शातयत्याजौ शिरांसि गजयोधिनाम्
गदया वीरघातिन्या फलानीव वनस्पतेः
कालेन परिपक्वानि तावच्छाम्यतु वैशसम्
नकुलस्सहदेवश्च धृष्टद्युम्नश्च पार्षतः
विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः
यावन्न प्रविशन्त्येते नक्रा इव महार्णवम्
कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम्
यावन्न सुकुमारेषु शरीरेषु महीक्षिताम्
गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम्
चन्दनागुरुदिग्धेषु हारनिष्कधरेषु च
नोरस्सु यावद्योधानां महेष्वासैर्महेषवः
कृतस्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः
अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम्
अभिवादयमानं त्वां शिरसा राजकुञ्जरः
पाणिभ्यां प्रतिगृह्णातु धर्मराजो महामतिः
ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणम्
स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ
रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च
उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु
सालस्कन्धो महाबहुस्त्वां सुजातो वृकोदरः
साम्नाऽभिवदतां चापि शान्तये भरतर्षभ
अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः
मूर्ध्नि तान्समुपाघ्राय प्रेम्णाऽभिवद पार्थिव
दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिस्सह सङ्गतम्
यावदानन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः
घुष्यतां राजधानीषु सर्वसम्पन्महीक्षिताम्
पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव