नारदः-
सद्भिरारोपितस्स्वर्गं पार्थिवैर्भूरिदक्षिणैः
अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः
अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना
परिष्वक्तश्च पुण्येन वायुना च सुगन्धिना
अचलं स्थानमासाद्य दौहित्रफलनिर्जितम्
कर्मभिस्स्वैरुपचितो जज्वाल परया श्रिया
उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः
प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिस्स्वनैः
अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः
अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः
प्राप्तस्स्वर्गफलं चैव तमुवाच पितामहः
निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव
ब्रह्मा-
चतुष्पादस्त्वया धर्मश्चितो लौक्येन कर्मणा
अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि
पुनस्त्वयैव राजर्षे स्वकृतेन विघातितम्
आवृतं तमसा चेतस्सर्वेषां स्वर्गवासिनाम्
येन त्वां नाभिजानन्ति ततो ज्ञात्वाऽसि पातितः
प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः
स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम्
अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम्
ययातिः-
भगवन्संशयो मेऽस्ति कच्चित्तं भेत्तुमर्हसि
न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्
अनेकक्रतुदानौघैर्यन्मयोपार्जितं फलम्
कथं तदल्पकालेन क्षीणं येनास्मि पातितः
भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्मितान्
कथं नु मम तत्सर्वं विप्रनष्टं महाद्युते
ब्रह्मा-
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्
अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम्
तदनेनैव दोषेण क्षीणं येनासि पातितः
अभिमानेन राजेन्द्र धिक्कृतस्स्वर्गवासिभिः
नायं मानेन राजर्षे न बलेन न हिंसया
न शाठ्येन न मायाभिर्लोको भवति शाश्वतः
नावमान्यास्त्वया राजन्नधमोत्कृष्टमध्यमाः
न हि मानप्रदग्धानां कश्चिदस्ति शमः क्वचित्
पतनारोहणमिदं कथयिष्यन्ति ये नराः
विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः
नारदः-
एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना
निर्बध्नताऽतिमात्रं च गालवेन महीपते
श्रोतव्यं हितकामानां सुहृदां हितमिच्छताम्
न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयावहः
तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय
सन्धत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव
स भवान्सुहृदां पथ्यं वचो गृह्णातु माऽनृतम्
समर्थैर्विग्रहं कृत्वा विषमस्थो भविष्यसि
ददाति यत्पार्थिव यत्करोति यद्वा तपस्तप्यति यञ्जुहोति
न तस्य नाशोऽस्ति न चापकर्षो नान्यस्तदश्नाति स एव कर्ता
इदं महाख्यानमनुत्तमं मतं बहुश्रुतानां गतरोषरागिणाम्
समीक्ष्य लोके बहुधा प्रधावतां त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते