नारदः-
प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः
ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः
समारुरोह नृपतिरस्पृशन्वसुधातलम्
दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः
दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा
ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः
ख्यातो दानपतिर्लोके व्याजहार नृपं तदा
वसुमनाः-
प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया
तदप्यथ च दास्यामि तेन संयुज्यतां भवान्
यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम्
यच्च मे फलमाधाने तेन संयुज्यतां भवान्
नारदः-
ततः प्रतर्दनोऽप्याह वाचं क्षत्रियपुङ्गवः
प्रतर्दनः-
यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः
प्राप्तवानस्मि यल्लोके क्षत्रवंशोद्भवं यशः
नारदः-
वीरशब्दफलं चैव तेन संयुज्यतां भवान्
यथा धर्मे रतिर्नित्यं तेन सत्येन खं व्रज
शिबिरौशीनरो धीमानुवाच मधुरां गिरम्
शिबिः-
यथा बालेषु नारीषु वैवाह्येषु तथैव च
सङ्गरेषु निपातेषु तथा च व्यसनेषु च
अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज
यथा प्राणांश्च राज्यं च राजन्कर्मसुखानि च
त्यजेयं न त्वहं सत्यं तेन सत्येन खं व्रज
यथा सत्येन मे धर्मो यथा सत्येन मे यमः
प्रीतश्शतक्रतुश्चैव तेन सत्येन खं व्रज
नारदः-
अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः
अनेकशतयज्वानं वचनं प्राह धर्मवित्
अष्टकः-
शतशः पुण्डरीका मे गोसवा रचिताः प्रभो
क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि
न मे रत्नानि न धनं न तथाऽन्ये परिच्छदाः
क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज
नारदः-
यथा यथा हि जल्पन्ति दौहित्रास्तं नराधिपम्
तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ
एवं सर्वे समस्तैस्ते राजानस्सुकृतैस्तदा
ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा
दौहित्रास्स्वेन धर्मेण यज्ञदानकृतेन वै
चतुर्षु राजवंशेषु सम्भूताः कुलवर्धनाः
मातामहं महाप्राज्ञं दिवमारोपयन्त ते
राजानः-
राजधर्मगुणोपेतास्सत्यधर्मगुणान्विताः
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव