नारदः-
अथ प्रचलितस्स्थानादासनाच्च परिच्युतः
कम्पितेनैव मनसा धर्षितश्शोकवाह्निना
म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः
विघूर्णस्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः
अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः
शून्यश्शून्येन मनसा प्रपतत्स महीतलम्
किं मया मनसा ध्यातमशुभं धर्मदूषणम्
येनाहं चलितस्स्थानादिति राजा व्यचिन्तयत्
ते तु तत्रैव राजानस्सिद्धाश्चाप्सरसस्तथा
अपश्यन्त निरालम्बं ययातिं स्वर्गतश्च्युतम्
अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातिता
ययातिमब्रवीद्राजन्द्रेवराजस्य शासनात्
अतीव मदमत्तस्त्वं न कञ्चिन्नावमन्यसे
मानेन भ्रष्टस्स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज
न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत्
पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः
पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः
एतस्मिन्नेव काले तु नैमिशे पार्थिवर्षभान्
चतुरोऽपश्यत नृपस्तेषां मध्ये पपात ह
प्रतर्दनो वसुमनाश्शिबिरौशीनरोऽष्टकः
वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम्
तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम्
ययातिरुपजिघ्रन्वै निपपात महीं प्रति
भूमौ स्वर्गे च सम्बद्धां नदीं धूममयीमिव
गङ्गां गामिव गच्छन्तीमालम्ब्य जगतीपतिः
श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु
मध्ये निपतितो राजा लोकपालोपमेषु सः
चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु
पपात मध्ये राजर्षिर्ययातिः पुण्यसङ्क्षये
तमाहुः पार्थिवास्सर्वे दीप्यमानमिव श्रिया
राजानः-
को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा
यक्षो वाऽप्यथवा देवो गन्धर्वो राक्षसोऽपि वा
न हि मानुषरूपोसि को वाऽर्थः काङ्क्षितस्त्वया
ययातिः-
ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः
पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः
राजानः-
सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ
सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम्
ययातिः-
नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियोऽह्यहम्
न च मे प्रवणा बुद्धिः परपुण्यविनाशने
नारदः-
एतस्मिन्नेव काले तु मृगचर्याक्रमागताम्
माधवीं प्रेक्ष्य राजानस्त्वभिवाद्येदमब्रुवन्
राजानः-
किमागमनकृत्यं ते किं कुर्मश्शासनं तव
आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने
नारदः-
तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा
पितरं समुपागच्छद्ययातिं सा ववन्द च
दृष्ट्वा मूर्धनि तान्पुत्रांस्तापसी वाक्यमब्रवीत्
माधवी-
दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः
इमे त्वां तारयिष्यन्ति दृष्टमेतत्पुरातनम्
अहं ते दुहिता राजन्माधवी मृगचारिणी
मयाऽप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम्
यस्माद्राजन्नरास्सर्वे अपत्यफलभागिनः
तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप
नारदः-
ततस्ते पार्थिवास्सर्वे शिरसा जननीं तदा
अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन्
उच्चैरनुपमैस्स्निग्धैस्स्वरैरापूर्य मेदिनीम्
मातामहं नृपतयस्तारयन्तो दिवश्च्युतम्
राजानः-
नारदः-
राजधर्मगुणोपेतास्सत्यधर्मपरायणाः
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव
अथाकस्मादुपगतो गालवोऽप्याह पार्थिवम्
गालवः-
तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान्