नारदः-
स तु राजा पुनस्तस्याः कर्तुकामस्स्वयंवरम्
उपगम्याश्रमपदं गङ्गायामुनसङ्गमे
गृहीतमाल्यदामां तां रथमारोप्य माधवीम्
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम्
नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम्
शैलद्रुमवनौकानामासीत्तत्र समागमः
नानापुरुषदेश्यानामीश्वरैश्च समाकुलम्
ऋषिभिश्च महाभागैस्समन्तादावृतं वनम्
निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी
वरानुत्क्रम्य सर्वास्तान्वरं वृतवती वनम्
अवतीर्य रथात्कन्या नमस्कृत्य च बन्धुषु
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा
उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी
वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च
चरन्ती श्लक्ष्णशष्पाणि तिक्तानि मधुराणि च
स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च
पिबन्ती वारिमुख्यानि शीतानि विमलानि च
वनेष्वमृतकल्पेषु सिंहविप्रोषितेषु च
दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च
चरन्ती हरिणैस्सार्धं मृगीव वनचारिणी
चचार विपुलं धर्मं ब्रह्मचर्येण संवृता
ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः
बहुवर्षसहस्रायुर्युयुजे कालधर्मणा
पुरुर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ
ताभ्यां प्रतिष्ठितो लोको परलोके च नाहुषः
महीपते नरपतिर्ययातिस्स्वर्गमास्थितः
महर्षिकल्पो नृपतिस्स्वर्गाग्र्यफलभुग्विभुः
अथ वर्षसहस्रान्ते काले बहुगुणे गते
राजर्षिषु निषण्णेषु महीयस्सु महर्धिषु
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः
ततस्तं बुबुधे देवश्शक्रो बलनिषूदनः
ते च राजर्षयस्सर्वे धिग्धिगित्येवमब्रुवन्
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम्
कोऽन्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः
कर्मणा केनसिद्धोऽयं क्व वाऽनेन तपश्चितम्
कथं विज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत
एवं विचारस्यन्तस्ते राजानं स्वर्गवासिनः
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति
विमानपालाश्शतशस्स्वर्गद्वाराभिरक्षिणः
पृष्टा आसनपालाश्च न जानीम इति ब्रुवन्
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम्
स मुहूर्तादथ नृपो हतौजाश्चाभवत्तदा