नारदः-
हर्यश्वस्त्वब्रवीद्वाक्यं विचिन्त्य बहुधा ततः
दीर्घकालं विनिश्वस्य प्रजाहेतोर्नृपोत्तमः
हर्यश्वः-
उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु
गम्भीरा त्रिषु गम्भीरेष्वियं रक्ता हि पञ्चसु
श्रोण्यौ ललाटकक्षौ च घ्राणं चेति षडुन्नतम्
सूक्ष्माण्यङ्गुलिपर्वाणि केशरोमनखत्वचः
स्वरस्सत्वं च नाभिश्च त्रिगम्भीरं प्रचक्षते
पाणिपादतले रक्ते नेत्रान्तास्यनखानि च
बहुदेवासुरालोका बहुगन्धर्वदर्शना
बहुलक्षणसम्पन्ना बहुकल्याणधारिणी
समर्थेयं जनयितुं चक्रवर्तिनमात्मजम्
ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम
गालवः-
एकतश्श्यामकर्णानां शतान्यष्टौ च देहि मे
हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम्
ततस्तव भवित्रीयं पुत्राणां जननी शुभा
अरणीव हुताशानां योनिरायतलोचना
नारदः-
स तच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः
उवाच गालवं दीनो राजर्षिरृषिसत्तमम्
हर्यश्वः-
द्वे मे शते सन्निहिते हयानां यद्विधास्तव
एष्टव्याश्शतशस्त्वन्ये चरन्ति मम वाजिनः
नारदः-
सोऽहमेकमपत्यं वै जनयिष्यामि गालव
अस्यामेतं भवान्कामं सम्पादयतु मे वरम्
एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत्
माधवी-
मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना
प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वमिति प्रभो
स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान्
नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि वै
भविष्यन्ति तथा पुत्रा मम चत्वार एव च
क्रियतामुपसंहारो गुर्वर्थं द्विजसत्तम
एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज
नारदः-
एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा
हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत्
गालवः-
इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम्
चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम्
नारदः-
प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च
समये देशकाले च लब्धवान्सुतमीप्सितम्
जातो वसुमना नाम वसुभ्यो वसुसत्तमः
वसुप्रख्यो नरपतिस्स बभूव वसुप्रदः
अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः
उपसङ्गम्य चोवाच हर्यश्वं प्रीतमानसम्
गालवः-
जातो नृप सुतस्तेऽयं बालो भास्करसन्निभः
कालो गन्तुं नरश्रेष्ठ शुल्कार्थमपरं नृपम्
नारदः-
हर्यश्वस्सत्यवचने स्थितस्स्थित्वा च पौरुषे
दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः
माधवी च पुनर्दीप्तां परित्यज्य नृपश्रियम्
कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात्
त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः
प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम्