नारदः-
एवमुक्तस्सुपर्णेन तथ्यं वचनमुत्तमम्
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः
ययातिस्सूर्यसङ्काश इदं वचनमब्रवीत्
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम्
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम्
अतीत्य च नृपानन्यानादित्यकुलसम्भवान्
मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च
ययातिः-
अद्य मे सफलं जन्म तारितं चाद्य मे कुलम्
अद्यायं पावितो देशो मम तार्क्ष्य त्वयाऽनघ
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा
न तथा वित्तवानस्मि क्षीणं वित्तं हि मे सखे
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग
न चाशामस्य विप्रर्षेर्वितथां कर्तुमुत्सहे
पुत्रीं दास्यामि यत्कार्यं द्वयं सम्पादयिष्यति
अभिगम्य हताशो हि निवृत्तो दहते कुलम्
नातः परं वैनतेय किञ्चित्पापिष्ठमुच्यते
यथाऽऽशानाशनं लोके देहि नास्तीति वा वचः
हताशो ह्यकृतार्थस्सन्हतसम्भावितो नरः
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतोऽर्थिताम्
तस्माच्चतुर्णां वर्णानां स्थापयित्री सुता मम
माधवी नाम तार्क्ष्येयं सर्वधर्मप्रदायिनी
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी
सदा देवमनुष्यणामसुराणां च गालव
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम्
अस्याश्शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम्
किं पुनश्श्यामकर्णानां हयानां द्वे चतुश्शते
स भवान्प्रतिगृह्णातु ममैतां माधवीं सुताम्
दौहित्रपूतस्स्यामेष एष मे स्याद्वरः प्रभो
स तस्य वचनं श्रुत्वा ब्राह्मणश्शंसितव्रतः
प्रतिगृह्य च तां कन्यां गालवस्सह पक्षिणा
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया
उपलब्धमिदं द्वारमश्वानामिति चाण्डजः
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम्
गते पतगराजे तु गालवस्सह कन्यया
चिन्तयानः क्षमं दाने राजानं शुल्कतोऽगमत्
सोऽगच्छन्मनसैक्ष्वाकं हर्यश्वं राजसत्तमम्
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम्
कोशधान्यबलोपेतं प्रियपौरं प्रियद्विजम्
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम्
तमुपागम्य विप्रस्स हर्यश्वं गालवोऽब्रवीत्
गालवः-
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी
इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम्
शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा सम्प्रधार्यताम्