नारदः-
सुपर्णः-
अथाह गालवं दीनं सुपर्णः पततां वरः
निर्मितं वह्निना भूमौ वायुना वर्धितं तथा
यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते
धत्ते धारयते चेदमेतस्मात्कारणाद्धनम्
तदेतत्त्रिषु लोकेषु धनं तिष्ठति शाश्वतम्
नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा
मनुष्येभ्यस्समादत्ते शुक्रश्चित्तार्जितं धनम्
अजैकपादहिर्बुध्न्यौ रक्ष्येते धनदेन च
एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ
ऋते च धनमश्वानां नावाप्तिर्विद्यते तव
अर्थं याचस्व राजानं कञ्चिद्राजर्षिवंशजम्
अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ
अस्ति सोमान्ववाये मे जातः कश्चिन्नृपस्सखा
अभिगच्छावहे तं वै यस्यास्ति विभवो भुवि
ययातिर्नाम राजर्षिर्नोहुषस्सत्यविक्रमः
स दास्यति मया चोक्तो भवता चार्थितस्स्वयम्
विभवश्चास्य सुमहानासीद्धनपतेरिव
एवं गुरुधनं विद्वन्दानेनैव विशोधय
नारदः-
तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम्
प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ
प्रतिगृह्य च सत्कारैरर्घ्यपाद्यादिकं ददौ
पृष्टश्चागमने हेतुमुवाच विनतासुतः
सुपर्णः-
अयं मे नाहुष सखा गालवस्तपसो निधिः
विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप
सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः
तमाह भगवान्किं ते ददानि गुरुदक्षिणाम्
असकृत्तेन चोक्तेन किञ्चिदागतमन्युना
अयमुक्तः प्रयच्छेति जानता विभवं लघु
एकतश्श्यामकर्णानां शुभ्राणां शुद्धजन्मनाम्
अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम्
गुर्वर्थो दीयतामेष यदि गालव मन्यसे
इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः
सोऽयं शोकेन महता तप्यमानो द्विजर्षभः
अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः
प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः
कृत्वाऽऽपवर्गं गुरवे चरिष्यति महत्तपः
तपसस्संविभागेन भवन्तमपि योक्ष्यते
स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति
यावन्ति रोमाणि हये भवन्तीह नरेश्वर
तावतो वाजिदा लोकान्प्राप्नुवन्ति महीपते
पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान्
शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम्