नारदः-
ऋषभस्य ततश्शृङ्गं निपत्य द्विजपक्षिणौ
शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम्
अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम्
तया च स्वागतेनोक्तौ विष्टरे सन्निषीदतुः
सिद्धमन्नं तया क्षिप्रं बलिमन्त्रोपबृंहितम्
भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ चैव समाहितौ
मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया
अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः
मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः
गालवस्तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत
गालवः-
किमिदं भवता प्राप्तमिहागमनजं फलम्
वासोऽयमिह कालं तु कियन्तं नो भविष्यति
किं नु ते मनसा ध्यातमशुभं पततां वर
न ह्ययं भवतस्स्वल्पो व्यभिचारो भविष्यति
नारदः-
सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज
इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः
यत्र देवो महादेवो यत्र विष्णुस्सनातनः
यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति
सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया
ममैतन्नाम प्रध्यातं मनसा शोचसा किल
तदेवं बहुमानं ते मयेहानीप्सितं कृतम्
सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि
सा तौ तदाऽब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ
शाण्डिली-
न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज सम्भ्रमम्
निन्दिताऽस्मि त्वया वत्स न च निन्दां क्षमाम्यहम्
लोकेभ्यस्सपदि भ्रश्येद्यो मां निन्देत पापकृत्
हीनया लक्षणैस्सर्वैस्तथा निन्दितया मया
आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा
आचारलक्षणो धर्मो ह्याचाराल्लभते धनम्
आचाराच्छ्रिय आप्नोति आचारो हन्त्यलक्षणम्
तदायुष्मन्खगपते यथेष्टं गम्यतामितः
न च ते गर्हणीयाऽस्मि गर्हितव्यास्स्त्रियः क्वचित्
भवितासि यथा पूर्वं बलवीर्यसमन्वितः
नारदः-
बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ
अनुज्ञातस्तु शाण्डिल्या यथागतमुपागमत्
नैव चासादयामास तथारूपांस्तुरङ्गमान्
विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितः
उवाच वदतां श्रेष्ठो वैनतेयस्य सन्निधौ
विश्वामित्रः-
यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज
तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान्
नारदः-
प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम्
यथा संसिध्यते विप्र स मार्गः प्रविमृश्यताम्
सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम्
सुपर्णः-
प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान्
तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव
नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयाऽऽसितुम्