गालवः-
गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज
नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी
पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता
देवतानां हि सान्निध्यमत्र कीर्तितवानसि
अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः
इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम्
भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज
नारदः-
तमाह विनतासूनुरारोहस्वेति वै द्विजम्
आरुरोहाथ स मुनिर्गरुडं गालवस्तदा
गालवः-
क्रममाणस्य ते रूपं दृश्यते पन्नगाशन
भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः
पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम्
प्रस्थितानामिव समं पश्यामीह गतिं खग
ससागरवनामुर्वी सशैलवनकाननाम्
आकर्षन्निव चाभासि पक्षवातेन खेचर
समीननागनक्रं च खमिवारोप्यते जलम्
वायुना चैव महता पक्षवातेन चानिशम्
तुल्यरूपाननान्मत्स्यांस्तथा तिमितिमिङ्गिलान्
नागाश्वनरवक्रांश्च पश्याम्युन्मथितानिव
महार्णवस्य च रवैश्श्रोत्रे मे बधिरे कृते ||
न श्रृणोमि न पश्यामि नात्मनो वेद्मि कारणम्
शनैस्स तु भवान्यातु ब्रह्मवध्यामनुस्मरन्
न दृश्यते रविस्तात न दिशो न च खं खग
तम एव तु पश्यामि शरीरं ते न लक्षये
मणी व जात्यौ पश्यामि चक्षुषी तेऽहमण्डज
शरीरं तु न पश्यामि तव चैवात्मनश्च ह
पदे पदे तु पश्यामि सलिलादग्निमुत्थितम्
स मे निर्वाप्य सहसा शाम्यते चक्षुषी पुनः
तन्निवर्त महान्कालो गच्छतोर्विनतात्मज
न मे प्रयोजनं किञ्चिद्गमने पन्नगाशन
सन्निवर्त महाभाग न वेगं विषहामि ते
गुरवे संश्रुतानीह शतान्यष्टौ च वाजिनाम्
एकतश्श्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम्
तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज
ततोऽयं जीवितत्यागे दृष्टो मार्गो मया द्विज
नैव मेऽस्ति धनं किञ्चिन्न धनेनान्वितस्सुहृत्
न चार्थेनापि महता शक्यमेतद्व्यपोहितुम्
नारदः-
एवं बहु च दीनं च ब्रुवाणं गालवं तदा
प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः
सुपर्णः-
नातिप्रज्ञोऽसि विप्रर्षे योत्मानं त्युक्तुमिच्छसि
न चापि कृत्रिमः कालः कालो हि परमेश्वरः
किमहं पूर्वमेवेह भवता नाभिचोदितः
उपायोऽत्र महानस्ति येनैतदुपपद्यते
तदेष ऋषभो नाम पर्वतस्सागरोरसि
अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव