सपर्णः-
यस्मादुत्तार्यते पापाद्यस्मान्निश्रेयसोऽश्नुते
अस्मादुत्तारणफलादुत्तरेत्युच्यते बुधैः 1
उत्तरस्य हिरण्यस्य परिवापस्य गालव
मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः
अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ
नासौम्यो नाविधेयात्मा नाधर्मो वर्तते जनः
अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः
बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः
अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः
प्रकृत्या पुरुषस्यार्धं युगान्ताग्निसमप्रभः
न स दृश्यो मुनिगणैस्तथा देवैस्सवासवैः
गन्धर्वयक्षसिद्धैर्वा नरनारायणादृते
अत्र विष्णुस्सहस्राक्षस्सहस्रचरणोऽव्ययः
सहस्रशिरसश्श्रीमानेकः पश्यति मायया
अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत
अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम्
प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तमः
अत्रोमया तपस्तप्तं महेश्वरपरीप्सया
अत्र कामश्च रोषश्च शैलश्चोमा च सम्बभुः
अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव
आधिपत्येन कैलासे धनदोऽप्यभिषेचितः
अत्र चैत्ररथं रम्यमनु वैखानसाश्रमः
अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ
अत्र सौगन्धिकवनं दैवतैरभिरक्ष्यते
शाद्वलं कदलीस्कन्धमत्र सन्तानका नगाः
अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम्
विमानान्युनुरूपाणि कामभोग्यानि गालव
अत्र ते ऋषयस्सप्त देवी चारुन्धती तथा
अत्र तिष्ठति वै स्वातिरत्रास्या उदयस्स्मृतः
अत्र यज्ञं समासाद्य ध्रुवं स्थाता पितामहः
ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः
अत्र गङ्गामहाद्वारं रक्षन्ति द्विजसत्तमाः
कामा नाम महात्मानो मुनयस्सत्यवादिनः
न तेषां ज्ञायते सूर्तिर्नाकृतिर्न तपश्चितम्
परिवर्तसहस्राणि कामभोग्यानि गालव
यथा यथा प्रविशति तस्मात्परतरं नरः
तथा तथा द्विजश्रेष्ठ प्रविलीयति गालव
नैतत्केनचिदन्येन गतपूर्वं द्विजर्षभ
ऋते नारायणं देवं नरं वा जिष्णुमव्ययम्
अत्र कैलासमित्युक्तं स्थानमैलबिलस्य तत्
अत्र विद्युत्प्रभा नाम जझिरेऽप्सरसो दश
अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम्
त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम्
अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम
उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः
जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः
साक्षाद्धैमवतः पुण्यो विमलः कमलाकरः
ब्राह्मणेषु च यत्कृत्स्नं स्वकं कृत्वा धनं महत्
वव्रे वनं महर्षिस्स जैमूतं तद्वनं ततः
अत्र नित्यं दिशां पालास्सायं प्रातर्द्विजर्षभ
कस्य कार्यं किमिति वै परिक्रोशान्ति गालव
एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा
उत्तरेति परिख्याता सर्वकर्मस्तु चोत्तरा
एता विस्तरशस्तात तव सङ्कीर्तिता दिशः
चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि
उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं जगत्
पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज