कण्वः-
गरुडस्तत्र शुश्राव यथावृत्तं महाबलः
आयुःप्रदानं शक्रेण सुमुखस्य तु भारत
पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत्
गरुडः-
भगवन्किमवज्ञानात्क्षुधं प्रति भये मम
कामकारवरं दत्त्वा पुनश्चलितवानसि
निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे
आहारो विहितो धात्रा किमर्थं वार्यते त्वया
वृतश्चैष महानागस्स्थापितस्समयश्च मे
अनेन च मया देव भर्तव्यः प्रसवो महान्
एतस्मिंस्त्वन्यथा भूते नान्यं हिंसितुमुत्सहे
क्रीडसे कामकारेण देवराज यथेप्सितम्
सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम
ये च भृत्या मम गृहे प्रीतिमान्भव वासव
कण्वः-
श्रुत्वा सुपर्णवचनं सुमुखो दुर्मुखस्तदा
त्यक्त्वा रूपं विवर्णस्तु सर्परूपधरोऽभवत्
गत्वा विष्णुसमीपं तु पादपीठं समाश्लिषत्
तत्र स्थित्वा वैनतेयमुवाच बलवृत्रहा
इन्द्रः-
कण्वः-
न मत्कृतं वैनतेय न मां क्रोद्धुं त्वमर्हसि
दत्ताभयस्स सुमुखो विष्णुना प्रभविष्णुना
श्रुत्वा पुरन्दरेणोक्तमुवाच विनतासुतः
एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन्
त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः
त्वयि तिष्ठति देवेश न विष्णुः कारणं मम
त्रैलोक्यराजराज्यं हि त्वयि वासव शाश्वतम्
ममापि दक्षस्य सुता जननी कश्यपः पिता
अहमप्युत्सहे लोकान्समन्ताद्वोढुमोजसा
असह्यं सर्वभूतानां ममापि विपुलं बलम्
मयाऽपि सुमहत्कर्म कृतं दैतेयविग्रहे
श्रुतश्रीश्श्रुतसेनश्च विवस्वान्रोचनामुखः
प्रसहः कालकाक्षश्च मयाऽपि दितिजा हताः
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम्
वहामि चैवानुजं ते तेन मामवमन्यसे
कोऽन्यो भारसहो ह्यस्ति कोऽन्योस्ति बलवत्तरः
मया योऽहं विशिष्टः सन्वहामीमं सबान्धवम्
अवज्ञाय तु यत्तेऽहं भोजनादवरोपितः
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव
अदित्यां य इमे जाता बलविक्रमशालिनः
त्वमेषां किल सर्वेषां विशेषाद्बलवत्तरः
सोऽहं पक्षैकदेशेन वहामि त्वां पराक्रमात्
विमृश त्वं शनैस्तात कोऽन्वत्र बलवानिति
कण्वः-
स तस्य वचनं श्रुत्वा खगस्योदर्कदारुणम्
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत्
श्रीभगवान्-
गरुत्मन्मन्यसेत्मानं बलवन्तं सुदुर्बलम्
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज
त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे
अहमेवात्मनात्मानं वहामि त्वां च धारये
न त्वं वहसि मां दोर्भ्यां मोघं तव विकत्थनम्
इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह
कण्वः-
यद्येनं धारयस्येकं सफलं ते विकत्थितम्
इत्युक्त्वा भगवांस्तस्य स्कन्धे बाहुं समासजत्
आरोपितं समुद्वोढुं भुजं तं नाशकद्बलात्
निपपात स भारार्तो विह्वलो नष्टचेतनः
यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैस्सह
एकस्या देहशाखायास्तावद्भारममन्यत
न चैनं पीडयामास बलेन पुरुषोत्तमः
ततो हि जीवितं तस्य न व्यनीनशदच्युतः
विपक्षस्स्रस्तकायश्च विचेता विह्वलः खगः
मुमोच पत्राणि तदा गुरुभारप्रपीडितः
स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः
विचेता विह्वलो दीनः किञ्चिद्वचनमब्रवीत्
वैनतेयः-
भगवल्ँलोकसारस्य सदृशेन वपुष्मता
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले
क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः
न हि ज्ञातं बलं देव मया ते परमं विभो
तेन मन्ये ह्यहं वीर्यमात्मनो न समं परैः
कण्वः-
ततश्शनैस्तु भगवान्प्रसन्नो वै गरुत्मतः
मैवं भूय इति स्नेहात्तदा चैनमुवाच ह
पादाङ्गुष्ठेन चिक्षेप सुमुखं गरुडोरसि
ततः प्रभृति राजेन्द्र सह सर्पेण वर्तते
एवं विष्णुबलाक्रान्तो गर्वनाशमुपागमत्
गरुडो बलवान्राजन्वैनतेयो महायशाः
तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे
नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक
भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः
धनञ्जयश्चेन्द्रसुतो निहन्यात्तावकान्रणे
विष्णुर्वायुश्च शक्रश्च धर्मस्तावश्विनावुभौ
एते देवास्त्वया केन हेतुना वीक्षितुं क्षमाः
तदलं ते विरोधेन शमं गच्छ नृपात्मज
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि
प्रत्यक्षदर्शी सर्वस्य नारदोऽयं महातपाः
माहात्म्यस्य तदा विष्णोस्सोऽयं चक्रगदाधरः
दुर्योधनस्तु तच्छ्रुत्वा निश्वसन्भृकुटीमुखः
वैशम्पायनः-
राधेयमभिसम्प्रेक्ष्य जहास स्वनवत्तदा
कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः
ऊरुं गजकराकारं ताडयन्निदमब्रवीत्
दुर्योधनः-
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः
तथा महर्षे वर्तामि किं प्रलापः करिष्यति
कण्वः-
वैशम्पायनः-
ततः कण्वोऽब्रवीत्क्रुद्धो दुर्योधनमपण्डितम्
यस्मादूरुं ताडयसि ऊरौ मृत्युर्भविष्यति