नारदः-
एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम्
पातालमिति विख्यातं दैत्यदानवसेवितम्
इदमद्भिस्समं प्राप्ता ये केचिद्ध्रुवजङ्गमाः
प्रविशन्तो महानादं नदन्ति भयपीडिताः
अत्रासुरोऽग्निस्सततं दीप्यते वारिभोजनः
व्यापारेण धृतात्मानं निबद्धं समबुध्यत
अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः
अतस्सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते
अत्र दिव्यो हयशिरः काले पर्वणि पर्वणि
उत्तिष्ठति सुवर्णाभमद्भिरापूरयञ्जगत्
यस्मादत्र समग्रास्ताः पतन्ति जलमूर्तयः
तस्मात्पातालमित्येव ख्यायते पुरमुत्तमम्
ऐरावणोऽस्मात्सलिलं गृहीत्वा जगतो हितम्
मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति
अत्र नानाविधाकारास्तिमयो नैकरूपिणः
अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः
अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः
मृता हि दिवसे सूत पुनर्जीवन्ति तै निशि
उदयन्नित्यशश्चात्र चन्द्रमा रश्मिबाहुभिः
अमृतं संस्पृशन्स्पर्शात्सञ्जीवयति देहिनः
अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः
दैतेया निवसन्ति स्म वासवेन हृतश्रियः
अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः
भूतये सर्वभूतानामचरत्तप उत्तमम्
अत्र गोव्रतिनो विप्रास्स्वाध्यायाम्नायकर्शिताः
त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः
यत्रतत्रशयो नित्यं येनकेनचिदाशितः
येनकेनचिदाच्छन्नस्स गोव्रत इहोच्यते
ऐरावणो नागराजो वामनः कुमुदोऽञ्जनः
प्रसूतास्सुप्रतीकस्य वंशे वारणसत्तमाः
पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः
वरयिष्यामि तं गत्वा यत्नमास्थाय मातले
अण्डमेतज्जले न्यस्तं दीप्यमानमिव श्रिया
आप्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति
नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै
पितरं मातरं चापि नास्य जानाति कश्चन
अतः किल महानग्निरन्तकाले समुत्थितः
धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम्
कण्वः-
मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम्
न मेऽत्र रोचते कश्चिदन्यतो व्रज मा चिरम्