कण्वः-
मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा
वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया
नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः
स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः
मातलिर्नारदेनैवं सम्पृष्टः पथि गच्छता
यथावत्सर्वमाचष्ट स्वकार्यं नारदं प्रति
तमुवाचाथ स मुनिर्गच्छावस्सहिताविति
नारदः-
सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः
अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातले
दृष्ट्वा तत्र वरं कञ्चिद्रोचयिष्याव मातले
कण्वः-
अवगाह्य ततो भूमिमुभौ मातलिनारदौ
ददृशाते महात्मानौ लोकपालमपां पतिम्
तत्र देवर्षिसदृशीं पूजां स प्राप नारदः
महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत
तावुभौ प्रीतमनसौ कार्यवन्तौ निवेद्य ह
वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः
नारदस्सर्वभूतानामन्तर्भूमिनिवासिनाम्
जानंश्चकार व्याख्यानं यन्तुस्सर्वमजानतः
नारदः-
दृष्टस्ते वरुणस्सूत पुत्रपौत्रसमावृतः
पश्य तोयनिधेस्स्थानं सर्वतोभद्रमृद्धिमत्
एष पुत्रो महाप्रज्ञो वरुणस्येह गोपतेः
एष वै शीलवृत्तेन शौचेन च विशिष्यते
एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः
रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः
ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतश्श्रियम्
अदित्याश्चैव गोपुत्रो ज्येष्ठः पुत्रकृते कृतः
भवनं पश्य वारुण्यं यदेतत्सर्वकाञ्चनम्
यत्प्राप्य सुरतां प्राप्ता सुरास्सुरपतेस्सखे
एतानि हृतराज्यानां दैतेयानां च मातले
दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत
अक्षयाणि किलैतानि प्रवर्तन्ते स्म मातले
अनुभावप्रयुक्तानि सुरैरवजितानि ह
अत्र राक्षसजात्यश्च भूतयोन्यश्च मातले
दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः
अग्निरेष महार्चिष्माञ्जागर्ति वारुणह्रदे
वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता
एष गाण्डीवकश्चापो लोकसंहारसम्भवः
रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः
एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम्
सहस्रशतसङ्ख्येन प्राणेन सततं ध्रुवः
अशिष्टानपि शास्त्येष रक्षोबन्धुषु राजसु
सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना
एतच्छस्त्रं नरेन्द्राणां महच्चक्रेण भूषितम्
पुत्रास्सलिलराजस्य धारयन्ति महोदयम्
एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम्
सर्वतस्सलिलं शीतं जीमूत इव वर्षति
एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम्
तमसा मूर्छितं भाति येन नार्छति दर्शनम्
बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले
तव कार्योपरोधस्स्यात्तस्माद्गच्छाव मा चिरम्