वैशम्पायनः-
जामदग्न्यवचश्श्रुत्वा कण्वोऽपि भगवानृषिः
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि
कण्वः-
अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः
तथैव भगवन्तौ तौ नरनारायणावृषी
आदित्यानां हि सर्वेषां विष्णुरेकस्सनातनः
अजय्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः
निमित्तमरणाश्चान्ये चन्द्रसूर्यौ मही जलम्
वायुरग्निस्तथाऽऽकाशं ग्रहास्तारागणास्तथा
ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा
क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः
मुहूर्तमरणाश्चान्ये मानुषा मृगपक्षिणः
तिर्यग्योन्यश्च ये चान्ये जीवलोकचरास्स्मृताः
भूयिष्ठेन तु राजानश्श्रियं भुक्त्वाऽऽयुषः क्षये
मरणं प्रतिगच्छन्ति भोक्तुं सुकृतदुष्कृते
स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हति
पाण्डवाः कुरवश्चैव पालयन्तु वसुन्धराम्
बलवानहमित्येव न मन्तव्यं सुयोधन
बलवन्तो बलिभ्यो हि दृश्यन्ते पुरुषर्षभ
न बलं बलिनां मध्ये बलं भवति कौरव
बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मातलेर्दातुकामस्य कन्यां मृगयतो वरम्
मतस्त्रिलोकराजस्य मातलिर्नाम सारथिः
तस्यैकैव कुले कन्या रूपतो लोकविश्रुता
गुणकेशीति विख्याता नाम्ना सा देवरूपिणी
श्रिया च वपुषा चैव स्त्रियोऽन्यास्साऽतिरिच्यते
तस्याः प्रदानसमयं मातलिस्सह भार्यया
ज्ञात्वा विममृशे राजंस्तद्धितं परिचिन्तयन्
मातलिः-
धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम्
नराणामृदुसत्वानां कुले कन्याप्ररोहणम्
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते
कुलत्रयं संशयितं कुरुते कन्यका सती
देवमानुषलोकौ द्वौ मनसा चैव चक्षुषा
अवगाह्यैव विचितौ न च मे रोचते वरः
कण्वः-
न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान्
अरोचयद्वरकृते त्रिषु लोकेषु वै ऋषीन्
भार्यया तु स सम्मन्त्र्य सह रात्रौ सुधर्मया
मातलिर्नागलोकाय चकार गमने मतिम्
न मे देवमनुष्येषु गुणकेश्यास्समो वरः
रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम्
इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम्
कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम्