वैशम्पायनः-
तस्मिन्नभिहिते वाक्ये केशवेन महात्मना
स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः
कश्चिदुत्तरमेतेषां वक्तुं नोत्सहते पुमान्
इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः
तथा तेषु च सर्वेषु तूष्णीम्भूतेषु राजसु
जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि
जामदग्न्यः-
इमां मे सोपमां वाचं शृणु सत्यामशङ्कितः
तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे
राजा दम्भोद्भवो नाम सार्वभौमः पुराऽभवत्
अखिलां बुभुजे सर्वां पृथिवीमिति नश्श्रुतम्
स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान्
ब्राह्मणान्क्षत्रियान्वैश्यान्पृच्छन्नास्ते महारथः
दम्भोद्भवः-
अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि
शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वाऽपि शस्त्रभृत्
जामदग्न्यः-
इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम्
दर्पेण महता मत्तः कञ्चिदन्यमचिन्तयन्
तस्मै वैद्या अकृपणा ब्राह्मणास्सर्वतोऽभयाः
प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः
निषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान्
अभिमानी श्रिया मत्तस्तमूचुर्ब्राह्मणास्तदा
तपस्विनो महात्मानो वेदव्रतसमन्विताः
उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः
ब्राह्मणः-
जामदग्न्यः-
अनेकजननं सङ्ख्यं ययोः पुरुषसिंहयोः
तयोस्त्वं न समो युद्धे भवितासि कदाचन
एवमुक्तस्स राजा तु पुनः पप्रच्छ तान्द्विजान्
दम्भोद्भवः-
क्व तौ वीरौ क्वजन्मानौ किङ्कर्माणौ च कौ च तौ
ब्राह्मणाः-
नरो नारायणश्चैव तापसाविति नश्श्रुतम्
आजातौ मानुषे लोके ताभ्यां युद्ध्यस्व पार्थिव
श्रूयेते तौ महात्मानौ नरनारायणावुभौ
तपो घोरमनिर्देश्यं तप्येते गन्धमादने
जामदग्न्यः-
स राजा महतीं सेनां योजयित्वा षडङ्गिनीम्
अमृष्यमाणस्सम्प्रायाद्यत्र तावपराजितौ
स गत्वा विषमं घोरं पर्वतं गन्धमादनम्
मार्गमाणोऽभ्यगच्छत्तौ तापसावपराजितौ
तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसन्ततौ
शीतवातातपैरुग्रैः कर्शितौ पुरुषोत्तमौ
अभिगम्योपसङ्गृह्य पर्यपृच्छदनामयम्
तमर्चित्वा मूलफलैरासनेनोदकेन च
अब्रूतां परवीरघ्नं किं कार्यं क्रियतामिति
ततस्तामानुपूर्वीं स पुनरेवान्वकीर्तयत्
दम्भोद्भवः-
बाहुभ्यां मे जिता भूमिर्निहतास्सर्वशत्रवः
भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम्
आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति
नरनारायणौ-
अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम
न ह्यस्मिन्नाश्रमे युद्धं कुतश्शस्त्रं कुतोऽनृजुः
अन्यत्र युद्धमाकाङ्क्ष बहवः क्षत्रियाः क्षितौ
जामदग्न्यः-
उच्यमानस्तथाऽपि स्म भूय एवाभ्यभाषत
पुनः पुनः क्षाम्यमाणस्सान्त्व्यमानश्च भारत
दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ
ततो नरस्त्विषीकाणां मुष्टिमादाय भारत
अब्रवीदेहि युद्ध्यस्व युद्धकामुक क्षत्रिय
सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम्
सन्नह्यस्व च वर्माणि यानि चान्यानि सन्ति ते
अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम्
यदाह्वयसि दर्पेण ब्राह्मणप्रमुखाञ्जनान्
दम्भोद्भवः-
यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे
एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः
जामदग्न्यः-
इत्युक्त्वा शरवर्षेण सर्वतस्समवाकिरत्
दम्भोद्भवस्तापसौ तौ जिघांसुर्बलदर्पितः
तस्य तानस्यतः क्षिप्रमिषून्परतनुच्छिदः
कदर्थीकृत्य स मुनिरिषीकाभिरपानुदत्
ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितः
अस्त्रमप्रतिसन्धेयं तदद्भुतमिवाभवत्
तेषामक्षीणि कर्णांश्च नासिकाश्चैव मायया
निमित्तवेधी स मुनिरीषीकाभिस्समर्पयत्
स दृष्ट्वा स्फीतमाकाशमिषीकाभिस्समाचितम्
पादयोर्न्यपतद्राजा स्वस्ति मेस्त्विति चाब्रवीत्
नरः-
तमब्रवीन्नरो राजञ्शरण्यश्शरणैषिणाम्
ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः
नैतादृक्पुरुषो राजन्क्षत्रधर्ममनुस्मरन्
मनसा नृपशार्दूल भवत्यरिपुरञ्जयः
मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कथञ्चन
सदृशाञ्श्रेयसो वाऽपि तत्ते राजन्समाहितम्
जितक्रोधः कृतप्रज्ञो निरहङ्कार आत्मवान्
दान्तश्शान्तो मृदुः क्षेमं प्रजाः पालय सर्वदा
मा स्म भूयः क्षिपेः कञ्चिदविदित्वा बलाबलम्
अनुज्ञातस्स्वस्ति गच्छ स्वगृहं राजसत्तम
कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम्
जामदग्न्यः-
ततो राजा तयोः पादावभिवाद्य महात्मनोः
प्रत्याजगाम स्वपुरं धर्मं चैवाचरद्भृशम्
अनेकं चास्य तत्कर्म तन्नरेण कृतं पुरा
ततो गुणैस्सुबहुभिश्श्रेष्ठो नारायणोऽभवत्
तस्माद्यावद्धनुश्श्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते
तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनञ्जयम्
काकुदीकं शुकं नाकमक्षिसन्तर्जनं तथा
सन्तानं नर्तकं घोरमास्यमोदकमष्टमम्
एतैर्विद्धास्सर्व एव मरणं यान्ति मानवाः
उन्मत्ताश्च विचेष्टन्ते नष्टसञ्ज्ञा विचेतसः
स्वपन्ति च प्लवन्ते च च्छर्दयन्ति च मानवाः
मूत्रयन्ते च सततं रुदन्ति च हसन्ति च
असङ्ख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः
त्वमेव भूयो जानासि कुन्तीपुत्रं धनञ्जयम्
नरनारायणौ यौ तौ तावेवार्जुनकेशवौ
विजानीहि महाराज प्रवीरौ पुरुषोत्तमौ
यद्येतदेवं जानासि न च मामभिशङ्कसे
आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः
अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति
प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः
निर्माता सर्वलोकानामीश्वरस्सर्वलोककृत्
यस्य नारायणो बन्धुरर्जुनो दुस्सहो युधि
कस्समुत्सहते जेतुं त्रिषु लोकेषु भारत
वीरं कपिध्वजं जिष्णुं यस्य नास्ति समो युधि
भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि
तत्तथैवास्तु भद्रं ते स्वार्थमत्रानुचिन्तय