वैशम्पायनः-
तेष्वासीनेषु सर्वेषु तूष्णीम्भूतेषु राजसु
वाक्यमभ्याददे कृष्णस्सुदंष्ट्रो दुन्दुभिस्वनः
जीमूत इव घर्मान्ते सर्वां संश्रावयन्सभाम्
धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः
श्रीभगवान्-
कुरूणां पाण्डवानां च शमस्स्यादिति भारत
अप्रणाशेन वीराणामेतद्वेदितुमागतः
राजन्नान्यत्प्रवक्तव्यं तव नैश्श्रेयसं वचः
विदितं ह्येव ते सर्वं वेदितव्यमरिन्दम
इदं ह्यद्य कुलं श्रेष्ठं पार्थिव्यां सर्वराजसु
श्रुतवृत्तोपसम्पन्नं सर्वैस्समुदितं गुणैः
कृपानुकम्पा कारुण्यमानृशंस्यं च भारत
तथाऽऽर्जवं क्षमा सत्यं कुरुष्वेव विशिष्यते
तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति
त्वन्निमित्तं विशेषेण नेह युक्तमसाम्प्रतम्
त्वं हि वारयिता श्रेष्ठः कुरूणां कुरुसत्तम
मिथ्या प्रचरतां तात बाह्येष्वाभ्यन्तरेषु च
पुत्रास्तव तु कौरव्य दुर्योधनपुरोगमाः
धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत्
अशिष्टा गतमर्यादा लोभेन हृतचेतसः
स्वेषु बन्धुषु मुख्येषु तद्वेत्थ पुरुषर्षभ
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता
उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति
शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत
सुदुष्करोऽप्यत्र शमो मतो मे भरतर्षभ
त्वदधीनश्शमो राजन्मयि चैव विशाम्पते
पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान्
अनुज्ञातं हि भवता सर्वैः पुत्रैस्सहान्वयैः
हितं बलवदप्येषां तिष्ठतां तव शासने
हितं हि धार्तराष्ट्राणां पाण्डवानां तथा हितम्
शमे प्रयतमानस्य तव शासनकाङ्क्षिणः
तेषां निष्कल्मषं राजन्संविधत्स्व विशाम्पते
सहभूतास्तु भरतास्तवैव स्युर्जनाधिप
धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः
न हि शक्यास्तथाभूता यत्नादपि नराधिप
न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः
इन्द्रोपि देवैस्सहितः प्रसहेत कुतो नृपाः
यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः
सैन्धवश्च कलिङ्गश्च काम्भोजश्च सुदक्षिणः
युधिष्ठिरो भीमसेनस्सव्यसाची यमौ तथा
सात्यकिश्च महातेजा युयुत्सुश्च महारथः
तत्र युध्येत को राजन्जीवितप्रेप्सुराहवे॥
गौरवं सर्वराज्ञां हि शत्रुभिश्चाप्यधृष्यताम्
प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः
तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते
श्रेयांसश्चैव राजानस्सन्धास्यन्ते परन्तप
स त्वं पुत्रैश्च पौत्रैश्च पितृभिर्भ्रातृभिस्तथा
सुहृद्भिस्सर्वतो गुप्तस्सुखं शक्ष्यसि जीवितुम्
एतानेव पुरोधाय सत्कृत्य च यथा पुरा
अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते
एतैर्हि सहितस्सर्वैः पाण्डवैस्स्वैश्च भारत
अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः
तैरेवोपार्जितां भूमिं भोक्ष्यसे च परन्तप
यदि सन्धित्ससे राजन्पाण्डवैश्च परन्तप
संयुगे वै महाराज दृश्यते वै महान्क्षयः
क्षये चोभयतो राजन्कं धर्ममनुपश्यसि
पाण्डवैर्निहतैस्सङ्ख्ये पुत्रैर्वापि महाबलैः
यद्विन्देथास्सुखं राजंस्तद्ब्रूहि भरतर्षभ
शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः
पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात्
न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे
क्षीणानुभयतश्शूरान्रथिनो रथिभिर्हतान्
समवेताः पृथिव्यां हि राजानो राजसत्तम
अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः
त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः
त्वयि प्रकृतिमापन्ने शेषं स्यात्कुरुनन्दन
शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः
अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात्
सुखेनेमे भूमिपालाः परिष्वज्य परस्परम्
सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम्
सुवाससस्स्रग्विणश्च सत्कृता भरतर्षभ
अमर्षं च निराकृत्य वैराणि च परन्तप
हार्दं यत्पाण्डवेष्वासीत्प्राक्तस्मिन्नागसाह्वये
तदेव ते भवत्वद्य सन्धत्स्व भरतर्षभ
बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः
तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ
भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः
मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ
आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च
भवतश्शासनाद्दुःखमनुभूतं सहानुगैः
द्वादशैतानि वर्षाणि वने निर्व्युषितानि नः
त्रयोदशं तथाऽज्ञातैस्सजनैः परिवत्सरम्
स्थाता नस्समये तस्मिन्पितेति कृतनिश्चयाः
तीर्णास्स्म समयं राजंस्तच्च नो ब्राह्मणा विदुः
तस्मिन्नस्समये तिष्ठ स्थितानां भरतर्षभ
नित्यं सङ्क्लेशिता राजन्स्वराज्यांशं लभेमहि
त्वं धर्ममर्थं सञ्जानन्सम्यङ्नस्त्रातुमर्हसि
गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशान्सहामहे
स भवान्मातृपितृवदस्मासु प्रतिपद्यताम्
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत
वर्तामहे त्वयि च तां त्वं च वर्तस्व नस्तथा
पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः
संस्थापय पथिष्वस्मांस्तिष्ठ धर्मे सुवर्त्मनि
आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ
धर्मज्ञेषु सभासत्सु नेह युक्तमसाम्प्रतम्
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते
नचास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः
धर्म एतानारुजति यथा नद्यनुकूलजान्
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते
ते सत्यमाहुर्धर्म्यं च न्याय्यं च भरतर्षभ
शक्यं किमन्यद्वक्तुं ते दानादन्यज्जनेश्वर
ब्रुवन्तु वा महीपालास्सभायां ये समासते
धर्मार्थौ सम्प्रधार्यैव यदि सत्यं ब्रवीम्यहम्
प्रमुञ्चेमान्मृत्युपाशात्क्षत्रियान्पुरुषर्षभ
प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः
पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम्
ततस्सपुत्रस्सिद्धार्थो भुङ्क्ष्व भोगान्परन्तप
अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा
सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप
द्रोहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः
इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः
स तत्र विवसन्सर्वान्वशमानीय पार्थिवान्
त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत
तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता
राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः
स तामवस्थां सम्प्राप्य कृष्णां प्रेक्ष्य सभागताम्
क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः
अहं तु तव तेषां च श्रेय इच्छामि भारत
धर्मादर्थात्सुखाच्चैव राजन्मा नीनशः प्रजाः
अनर्थमर्थं मन्वानोऽप्यर्थं चानर्थमात्मनः
लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशाम्पते
स्थिताश्शुश्रूषितुं पार्थास्स्थिता योद्धुमरिन्दमाः
यत्ते पथ्यतमं राजंस्तस्मिंस्तिष्ठ परन्तप
वैशम्पायनः-
तद्वाक्यं पार्थिवास्सर्वे हृदयैस्समपूजयन्
न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः