वैशम्पायन उवाच
तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी
धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः
शृण्वतो विविधा वाचो विदुरस्य महात्मनः
कथाभिरनुरूपाभी रक्तस्यामिततेजसः
अकामस्यैव कृष्णस्य सा व्यतीयाय शर्वरी
ततस्तु स्वरसम्पन्ना बहवः सूतमागधाः
शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन्
तत उत्थाय दाशार्हऋषभः सर्वसात्वताम्
सर्वमावश्यकं चक्रे प्रातः कार्यं जनार्दनः
कृतोदकानुजप्यः स हुताग्निः समलङ्कृतः
ततश्चादित्यमुद्यन्तमुपातिष्ठत माधवः
अथ दुर्योधनः कृष्णं शकुनिश्चापि सौबलः
सन्ध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम्
आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम्
कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान्
त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः
तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना
ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः
ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परन्तपः
विसृष्टवन्तं रत्नानि दाशार्हमपराजितम्
तिष्ठन्तमुपसङ्गम्य ववन्दे सारथिस्तदा
`तस्मै रथवरो युक्तः शुशुभे लोकविश्रुतः
वाजिभिः शैब्यसुग्रीवमेघपुष्पबलाहकैः
शैब्यस्तु शुकपत्राभः सुग्रीवः किंशुकप्रभः
मेघपुष्पो मेघवर्णः पाण्डरस्तु बलाहकः
दक्षिणं चावहच्छैब्यः सुग्रीवः सव्यतोऽवहत्
पृष्ठवाहौ रथस्यास्तां मेघपुष्पबलाहकौ
विश्वकर्मकृताऽऽपीडा रत्नजालविभूषिता
आश्रिता वै रथे तस्मिन्ध्वजयष्टिरशोभत
वैनतेयः स्थितस्तस्यां प्रभाकरमिव स्पृशन्
तस्य सत्ववतः केतौ भुजगारिरशोभत
तस्य कीर्तिमतस्तेन भास्वरेण विराजता
शुशुभे स्यन्दनश्रेष्ठः पतगेन्द्रेण केतुना
रश्मिजालैः पताकाभिः सौवर्णेन च केतुना
बभूव स रथश्रेष्ठः कालसूर्य इवोदितः
पक्षिध्वजवितानैश्च रुक्मजालकृताङ्गणैः
दण्डमार्गविभागैश्च सुकृतैर्विश्वकर्मणा
प्रवालमणिशोभैश्च मुक्तावैडूर्यशोभनैः
किङ्किणीशतसङ्घैश्च वालजालकृतान्तरैः
कार्तस्वरमयीभिश्च पद्मिनीभिरलङ्कृतः
शुशुभे स्यन्दनश्रेष्ठस्तापनीयैश्च पादपैः
व्याघ्रसिंहवराहैश्च गोभिश्च मृगपक्षिभिः
ताराभिर्भास्करैश्चापि वारणैश्च हिरण्मयैः
वज्राङ्कुशविमानैश्च कूबरावृत्तसन्धिषु
समुच्छ्रितमहानाभिः स्तनयित्नुमहास्वनः’
ततो रथेन शुभ्रेण महता किङ्किणीकिना
हयोत्तमयुजा शीघ्रमुपातिष्ठत दारुकः
तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः
महाभ्रघननिर्घोषं सर्वरत्नविभूषितम्
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः
कौस्तुभं मणिमाबध्य श्रिया परमया ज्वलन्
कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः
आतिष्ठत रथं शौरिः सर्वयादवनन्दनः
अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित्
सर्वप्राणभृतां श्रेष्ठं सर्वबुद्धिमतां वरम्
ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः
द्वितीयेन रथेनैनमन्वयातां परन्तपम्
सात्यकिः कृतवर्मा च वृष्णीनां चापरे रथाः
पृष्ठतोऽनुययुः कृष्णं गजैरश्वै रथैरपि
तेषां हेमपरिष्कारैर्युक्ताः परमवाजिभिः
गच्छतां घोषिणश्चित्ररथा राजन्विरेजिरे
सम्मृष्टसंसिक्तरजः प्रतिपेदे महापथम्
राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन्
ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः
शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च
प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः
परिवार्य रथं शौरेरगच्छन्त परन्तपाः
ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः
असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः
गजाः पञ्चशतास्तत्र रथाश्चासन्सहस्रशः
प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम्
पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम्
सबालवृद्धं सस्त्रीकं रथ्यागतमरिन्दम
वेदिकामाश्रिताभिश्च समाक्रान्तान्यनेकशः
प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत
स पूज्यमानः कुरुभिः संशृण्वन्मधुराः कथाः
यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ
ततः सभां समासाद्य केशवस्यानुयायिनः
सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन्
ततः सा समितिः सर्वा राज्ञाममिततेजसाम्
सम्प्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया
ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः
श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम्
आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम्
अवतीर्य रथाच्छौरिः कैलासशिखरोपमात्
नवमेघप्रतीकाशां ज्वलन्तीमिव तेजसा
महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः
पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः
ज्येतींष्यादित्यवद्राजन्कुरून्प्राच्छादयच्छ्रिया
अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ
वृष्णयः कृतवर्मा चाप्यासन्कृष्णस्य पृष्ठतः
धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम्
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वर
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः
उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे
तानि राजसहस्राणि समुत्तस्थुः समन्ततः
आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम्
कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात्
स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः
अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः
तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम्
राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम्
तत्र तिष्ठन्स दाशार्हो राजमध्ये परन्तपः
अपश्यदन्तरिक्षस्थानृषीन्परपुरञ्जयः
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन्
अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः
पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप
निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा
नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम्
वैशम्पायन उवाच
पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम्
ऋषीञ्शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान्
त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत्
आसनान्यथ मृष्टानि महान्ति विपुलानि च
मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः
तेषु तत्रोपविष्टेषु गृहीतार्घ्येषु भारत
निषसादासने कृष्णो राजानश्च यथासनम्
दुःशासनः सात्यकये ददावासनमुत्तमम्
विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे
अविदूरे तु कृष्णस्य कर्णदुर्योधनावुभौ
एकासने महात्मानौ निषीदतुरमर्षणौ
गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः
निषसादासने राजा सहपुत्रो विशाम्पते
विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे
संस्पृशन्नासनं शौरेर्महामतिरुपाविशत्
चिरस्य दृष्ट्वा दाशार्हं राजानः सर्व एव ते
अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम्
अतसीपुष्पसङ्काशः पीतवासा जनार्दनः
व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः
ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम्
न तत्र कश्चित्किञ्चिद्वा व्याजहार पुमान्क्वचित्