वैशम्पायनः-
तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत्
नेदं सम्यग्व्यवसितं केशवागमनं तव
अर्थधर्मातिगो मन्दः संरम्भी च जनार्दन
मानघ्नो मानकामश्च वृद्धानां शासनातिगः
धर्मशास्त्रातिगो मूढो दुरात्मा प्रग्रहं गतः
अनेयः श्रेयसां मन्दो धार्तराष्ट्रो जनार्दन
कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्किता
अकर्ता चाकृतज्ञश्च त्यक्तधर्मा प्रियानृतः
मूढश्चाकृतबुद्धिश्च इन्द्रियाणामनीश्वरः
कामानुसारी कृत्येषु सर्वेष्वकृतनिश्चयः
एतैश्चान्यैश्च बहुभिर्दोषैरेव समन्वितः
त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे
भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः
निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन
भीष्मद्रोणमुखान्पार्था न शक्ताः प्रतिवीक्षितुम्
सेनासमुदयं कृत्वा पार्थिवं मधुसूदन
कृतार्थं मन्यते बाल आत्मानमविचक्षणः
एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम्
धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति
संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव
शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः
न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम्
इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम्
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन
न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः
अविजानत्सु मूढेषु निर्मर्यादेषु माधव
तत्त्वं वाक्यं ब्रुवन्निन्द्यश्चण्डालेषु द्विजो यथा
सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः
तस्मिन्निरर्थकं वाक्यमुक्तं सम्पत्स्यते तव
तेषां समुपविष्टानां सर्वेषां पापचेतसाम्
तव मध्यावतरणं मम कृष्ण न रोचते
दुर्बुद्धीनामशिष्टानां बहूनां दुष्टचेतसाम्
प्रतीपं वचनं मध्ये तव कृष्ण न रोचते
अनुपासितवृद्धत्वाच्छ्रियो दर्पाच्च मोहितः
वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति
बलं बलवदप्यस्य यदि वक्ष्यसि माधव
त्वय्यस्य महती शङ्का न करिष्यति ते वचः
नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः
इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन
तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु
समर्थमपि ते वाक्यमसमर्थं भविष्यति
मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो रथाश्वयुक्तस्य बलस्य मूढः
दुर्योधनो मन्यते वीतभीतिः कृत्स्ना मयेयं पृथिवी जितेति
आशंसते वै धृतराष्ट्रस्य पुत्रो महाराज्यमसपत्नं पृथिव्याम्
तस्मिञ्शमः केवलो नोपलभ्यो बद्धं सन्तं मन्यते लब्धमर्थम्
पर्यस्तेयं पृथिवी कालपक्वा दुर्योधनार्थे पाण्डवान्योद्धुकामाः
समागताः सर्वयोधाः पृथिव्यां राजानश्च क्षितिपालैः समेताः
सर्वे चैते कृतवैराः पुरस्तात्त्वया राजानो हृतसाराश्च कृष्ण
तवोद्वेगात्संश्रिता धार्तराष्ट्रान्सुसंहताः सह कर्णेन वीराः
त्यक्तात्मानः सह दुर्योधनेन हृष्टा योद्धुं पाण्डवान्सर्वयोधाः
मृत्युर्जयो वेति कृतैकभावाः कामात्मानो मन्युवशा विनीताः' तेषां मध्ये प्रविशेथा यदि त्वं न तन्मतं मम दाशार्हवीर तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् या मे प्रीतिः पुष्कराक्ष त्वद्दर्शनसमुद्भवा सा किमाख्यायते तुभ्यमन्तरात्माऽसि देहिनाम्
वैशम्पायनः-
विदुरस्य वचः श्रुत्वा प्रश्रितं पुरुषोत्तमः
इदं होवाच वचनं मधुरं मधुसूदनः’
श्रीभगवानुवाच
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः
यथा वाच्यस्त्वद्विधेन भवता मद्विधः सुहृत्
धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते
तथा वचनमुक्तोऽस्ति त्वयैतत्पितृमातृवत्
सत्यं प्राप्तं च युक्तं वाऽप्येवमेव यथाऽऽत्थ माम्
शृणुष्वागमने हेतुं विदुरावहितो मम
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम्
सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान्
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्
यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम्
धर्मकार्यं यतञ्शक्त्या नो चेत्प्राप्नोति मानवः
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः
मनसा चिन्तयन्पापं कर्मणा नातिरोचयन्
न प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया
कुरूणां सृञ्जयानां च सङ्ग्रामे विनशिष्यताम्
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता
कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः
व्यसने क्लिश्यमानं हि यो मित्रं नाभिपद्यते
अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः
आकेशग्रहणान्मित्रमकार्यात्सन्निवर्तयन्
अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम्
तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम्
धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति
हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च
पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया
हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि
हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते
सर्वयत्नेन माध्यस्थ्यं न तन्मित्रं विदुर्बुधाः
न मां ब्रूयुरधर्मिष्ठा मूढा ह्यसुहृदस्तथा
शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान्
उभयोः साधयन्नर्थमहामागत इत्युत
तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम्
मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम्
न चेदादास्यते बालो दिष्टस्य वशमेष्यति
अहापयन्पाण्डवार्थं यथावच्छमं कुरूणां यदि चाचरेयम्
पुण्यं च मे स्याच्चरितं महात्मन्मुच्येरंश्च कुरवो मृत्युपाशात्
अपि वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम्
अवेक्षेरन्धार्तराष्ट्राः शमार्थं मां च प्राप्तं कुरवः पूजयेयुः
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः
वैशम्पायनः-
इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा
शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः