वैशम्पायनः-
पृथामामन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम्
दुर्योधनगृहं शौरिरभ्यगच्छदरिन्दमः
लक्ष्म्या परमया युक्तं पुरन्दरगृहोपमम्
विचित्रैरासनैर्युक्तं प्रविवेश जनार्दनः
तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वास्स्थैरवारितः
ततोऽभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम्
श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः
तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम्
धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने
दुश्शासनं च कर्णं च शकुनिं चापि सौबलम्
दुर्योधनसमीपे तानासनस्थान्ददर्श सः
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महामनाः
उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम्
समेत्य धार्तराष्ट्रेण समात्येन परन्तप
राजभिस्तत्र वार्ष्णेयस्समागच्छद्यथावयः
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम्
विविधास्तरणास्तीर्णमाविवेश गदाग्रजः
तस्मै गां मधुपर्कं च उदकं च जनार्दने
निवेदयामास तदा गृहान्राज्यं च कौरवः
आसनं सर्वतोभद्रं सर्वरत्नविभूषितम्
कृष्णार्थमेव संसिद्धं धार्तराष्ट्रस्य शासनात्
तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम्
उपासाञ्चक्रिरे सर्वे कुरवो राजभिस्सह
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम्
न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः
ततो दुर्योधनः कृष्णमब्रवीत्कुरुसंसदि
मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः
दुर्योधनः-
कस्मादन्नानि पापानि वासांसि शयनानि च
त्वदर्थमुपनीतानि नाभुङ्क्थास्त्वं जनार्दन
भीष्मद्रोणावतिक्रम्य मां चैव मधुसूदन
किमर्थं पुण्डरीकाक्ष भुक्तं वृषलभोजनम्
उभयोश्च ददत्साह्यमुभयोश्च हिते रतः
सम्बन्धी दयितश्चासि धृतराष्ट्रस्य माधव
त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः
तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर
वैशम्पायनः-
स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः
ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम्
अनर्मकृतमग्रस्तमनिरस्तमसङ्कुलम्
राजीवनेत्रो राजानं हेतुमद्वाक्यमब्रवीत्
श्रीभगवान्-
कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि
कृतार्थं मां सहामात्यं समर्चिष्यसि भारत
वैशम्पायनः-
दुर्योधनः-
एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम्
न युक्तं भवताऽस्मासु प्रतिवक्तुमसाम्प्रतम्
कृतार्थं वाऽकृतार्थं वा त्वां वयं मधुसूदन
यतामहे पूजयितुं दाशार्ह न च शक्नुमः
न च तत्कारणं विद्मो यस्मान्नो मधुसूदन
पूजां कृतां प्रीयमाणैर्न भुञ्जीथाः परन्तप
वैरं नो नास्ति भवता गोविन्द न च विग्रहः
स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति
वैशम्पायनः-
एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः
अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव
श्रीभगवान्-
नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात्
न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथञ्चन
सम्प्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः
न च सम्प्रीयसे राजन्न चैवापद्गता वयम्
अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान्
प्रियानुवर्तिनो भ्रातॄन्सर्वैस्समुदितान्गुणैः
अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते
धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति
यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु
ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः
कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सति
गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम्
यः कल्याणगुणं राजन्मोहान्नोत दिदृक्षते
सोऽजितात्माऽजितक्रोधो न चिरं तिष्ठते श्रिया
अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति
द्विषदन्नं न भौक्तव्यं द्विषन्तं नैव भौजयेत्
पाण्डवान्द्विषसे राजन्मम प्राणा हि पाण्डवाः
सर्वमेतन्न भोक्तव्यमन्नं दुष्टाभिसंहितम्
क्षुत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः
वैशम्पायनः-
एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम्
निश्चक्राम ततश्शुभ्राद्धार्तराष्ट्रनिवेशनात्
निर्याय च महाबाहुर्वासुदेवो महामनाः
निवेशाय ययौ वेश्य विदुरस्य महात्मनः
तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः
कुरवश्च महाबाहुं विदुरस्य गृहातिथिम्
कुरवः-
तेऽभिगम्याव्रुवंस्तत्र कुरवो मधुसूदनम्
निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम्
वैशम्पायनः-
श्रीभगवान्-
तानुवाच महातेजाः कौरवान्मधुसूदनः
सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता
वैशम्पायनः-
यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम्
अभ्यर्चयामास तदा सर्वकामैरुपस्थितः
ततः क्षत्ताऽन्नपानानि शुचीनि गुणवन्ति च
उपाहरदनेकानि केशवाय महात्मने
तैस्तर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः
वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि
भुक्तवत्सु द्विजाग्र्येषु निषण्णेषु वरासने
शुचिस्सुप्रयतो भूत्वा विदुरोऽन्नमुपाहरत्
विदुरः-
श्रद्धया परया युक्त इदं वचनमब्रवीत्
सम्भ्रमैस्तुष्य गोविन्द एतन्नः परमं धनम्
अन्यथा हि विशेषेण कस्त्वामर्चितुमर्हति
वैशम्पायनः-
ततोऽनुयायिभिस्सार्धं निषण्णः परमात्मने
विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च
तं भुक्तवन्तं विविधास्सुशब्दास्सूतमागधाः
अभितुष्टुवुरासीनं दाशार्हमपराजितम्