वैशम्पायनः-
अथोपगम्य विदुरमपराह्णे जनार्दनः
पितृष्वसारं स पृथामभ्यगच्छदरिन्दमः
सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम्
कण्ठे गृहीत्वा प्राक्रोशत्स्मरन्ती तनयान्पृथा
तेषां सत्ववतां मध्ये गोविन्दं सहचारिणम्
चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा
साऽब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम्
बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता
एते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः
परस्परस्य सुहृदस्सम्मतास्समचेतसः
निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः
विजितक्रोधहर्षाश्च ब्रह्मण्यास्सत्यवादिनः
त्यक्त्वा प्रियमुखे पार्था रुदतीमपहाय माम्
अहार्षुश्च वनं यान्तस्समूलं हृदयं मम
अतदर्हा महात्मानः कथं केशव पाण्डवाः
ऊषुर्महावने तात सिंहव्याघ्रगजाकुले
बाला विहीनाः पित्रा ते मया सततलालिताः
अपश्यन्तश्च पितरौ कथमूषुर्महावने
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वैणवैरपि
पाण्डवास्समबोध्यन्त बाल्यात्प्रभृति केशव
ये स्म वारणशब्देन हयानां हेषितेन च
रथनेमिनिनादैश्च व्यबोध्यन्त सदा गृहे
शङ्खभेरीनिनादेन वेणुवीणानुनादिना
पुण्याहघोषमिश्रैश्च पूज्यमाना द्विजातिभिः
वस्त्रै रत्नैरलङ्कारैः पूजयन्तो द्विजन्मनः
गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम्
अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः
प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः
क्रूरं च निनदं श्रुत्वा श्वापदानां महावने
न स्मोपयान्ति निद्रां ते नतदर्हा जनार्दन
भेरीमृदङ्गपणवैश्शङ्खवैणवनिस्वनैः
स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन
वन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम्
महावनेष्वबोध्यन्त श्वापदानां रुतैस्तु ते
ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता
कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते
अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च
भरतस्य दिलीपस्य शिबेरौशीनरस्य च
राजर्षीणां पुराणानां धुरं धुर्य इवोद्वहन्
शीलवृत्तोपसम्पन्नो धर्मज्ञस्सत्यसङ्गरः
राजा सर्वगुणोपेतस्त्रौलोक्यस्यापि यो भवेत्
अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः
श्रेष्ठः कुरुषु सर्वेषु धर्मज्ञश्श्रुतवृत्तमः
सुदर्शनो दीर्घवायुः कथं कृष्ण युधिष्ठिरः
यस्स नागायुतप्राणो वातरंहा वृकोदरः
सामर्षः पाण्डवो नित्यं प्रियो भ्रातुः प्रियङ्करः
कीचकस्य तु सज्ञातेर्यो हन्ता मधुसूदन
शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च
पराक्रमे शक्रसमो वायुवेगसमो जवे
महेश्वरसमः क्रोधे भीमः प्रहरतां वरः
क्रोधं बलममर्षं च यो निधाय परन्तपः
जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने
तेजोराशिं महात्मानं बलौघममितौजसम्
भीमं प्रदर्शनेनापि भीमसेनं जनार्दन
तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः
आस्ते परिघबाहुस्स मध्यमः पाण्डवोऽच्युत
अर्जुनेनार्जुनो योऽसौ कृष्ण बाहुसहस्रिणा
द्विबाहुस्स्पर्धते नित्यमतीतेनापि केशव
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः
इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः
तेजसाऽऽदित्यसदृशो महर्षिप्रतिमो दमे
क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः
आधिराज्यं महद्दीप्तं पार्थिवं मधुसूदन
आहृतं येन विक्रम्य कुरूणां सर्वराजसु
यस्य बाहुबलं घोरं कौरवाः पर्युपासते
स सर्वरथिनां श्रेष्ठः पाण्डवस्सत्यविक्रमः
यं गत्वाऽभिमुखस्सङ्ख्ये न जीवन्कश्चिदाव्रजेत्
यो जेता सर्वभूतानामजेयो जिष्णुरच्युत
योऽपाश्रयः पाण्डवानां देवानामिव वासवः
स ते भ्राता सखा चैव कथमद्य धनञ्जयः
दयावान्सर्वभूतेषु ह्रीनिषेवो महास्त्रवित्
मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे
सहदेवो महेष्वासश्शूरस्समितिशोभनः
भ्रातॄणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा
सदैव सहदेवस्य भ्रातरो मधुसूदन
वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः
ज्येष्ठोपचायिनं वीरं सहदेवं युधां पतिम्
शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः
भ्रातॄणां कृष्ण सर्वेषां प्रियः प्राणो बहिश्चरः
चित्रयोधी च नकुलो महेष्वासो महाबलः
कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः
सुखोचितमदुःखार्हं सुकुमारं महारथम्
अपि जातु महाबाहो पश्येयं नकुलं पुनः
पक्ष्मसम्पातजे काले नकुलेन विनाकृता
न लभामि सुखं वीर साऽद्य जीवामि पश्य माम्
सर्वैः पुत्रैः प्रियतरा द्रौपदी मे जनार्दन
कुलीना रूपसम्पन्ना सर्वैस्समुदिता गुणैः
पुत्री द्रुपदराजस्य विख्याता सत्यवादिनी
पतिलोकान्पुत्रलोकान्वृणवाना सत्यवादिनी
प्रियान्पुत्रान्परित्यज्य पाण्डवाननुरुध्यते
महाभिजनसम्पन्ना सर्वकामैस्सुखैधिता
ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत
पतिभिः पञ्चभिश्शूरैरग्निकल्पैः प्रहारिभिः
उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी
चतुर्दशमिमं वर्षं या न पश्याम्यरिन्दम
पुत्रादिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम्
न नूनं कर्मभिश्शुक्लैरश्नुवन्ति स्त्रियस्सुखम्
द्रौपदी चेत्तथावृत्ता नाश्नुते सुखमव्ययम्
न मे प्रिया द्रौपदेया न बीभत्सुयुधिष्ठिरौ
न भीमसेनो न यमौ यदपश्यं सभागताम्
न मे दुःखतरं किञ्चिद्भूतपूर्वं ततोऽधिकम्
स्त्रीधर्मिणीं द्रौपदीं चेच्छ्वशुराणां समीपगाम्
आनायितामनार्येण क्रोधलोभानुवर्तिना
सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम्
तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः
कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा
तस्यां संसदि सर्वेषां क्षत्तारं पूजयाम्यहम्
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया
तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः
क्षत्तुश्शीलमलङ्कारो लोकान्विष्टभ्य तिष्ठति
वैशम्पायनः-
सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम्
नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत्
कुन्ती-
पूर्वैराचरितं यत्तत्कुराजभिररिन्दम
अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम्
तन्मां दहति यत्कृष्णा सभायां कुरुसन्निधौ
धार्तराष्ट्रैः परिक्लिष्टा यथा न कुलजा तथा
निर्वासनं च नगरात्प्रव्रज्या च परन्तप
नानाविधानां दुःखानामावासोऽस्मि जनार्दन
अज्ञातचर्या बालानामवरोधश्च माधव
न मे क्लेशतमं तत्स्यात्पुत्रैस्सह परन्तप
दुर्योधनेन निकृता वर्षमद्य चतुर्दशम्
दुःखादपि सुदुःखं स्याद्यदि पुण्यफलक्षयः
न मे विशेषो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः
तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम्
अस्माद्विमुक्तं सङ्ग्रामात्पश्येयं पाण्डवैस्सह
नैव शक्याः पराजेतुं सर्वं तेषां तथाविधम्
पितरं चैव गर्हामि नात्माऽनं न सुयोधनम्
येनाहं कुन्तिभोजाय धनं धूत्तैरिवार्पिता
बालां मामार्यकस्तुष्यन्क्रीडन्तीं कन्दुहस्तिकाम्
अदात्तु कुन्तिभोजाय सखा सख्ये महात्मने
साऽहं पित्रा च निकृता श्वशुरैश्च परन्तप
अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम
यन्मां वागब्रवीन्नक्तं सूतके सव्यसाचिनः
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत्
हत्वा कुरून्महाजन्ये राज्यं प्राप्य धनञ्जयः
भ्रातृभिस्सह कौन्तेयस्त्रीन्मेधानाहरिष्यति
नाहं तामभ्यसूयामि नमो धर्माय वेधसे
कृष्णाय महते नित्यं धर्मो धारयति प्रजाः
धर्मश्चेदस्ति वार्ष्णेय यथा वागभ्यभाषत
त्वं चापि तत्तथा कृष्ण सर्वं सम्पादयिष्यसि
न मां माधव वैधव्यं नार्थनाशो न वैरिता
तथा शोकाय दहति यथा पुत्रैर्विनाभवः
याऽहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम्
धनञ्जयं न पश्यामि का शान्तिर्हृदयस्य मे
इमं चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम्
धनञ्जयं च गोविन्द यमौ तं च वृकोदरम्
जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः
अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन
ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम्
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः
पराश्रया वासुदेव या जीवमि घिगस्तु ताम्
वृत्तेः कार्पण्यलब्धाया अप्रतिष्ठैव ज्यायसी
अथो धनञ्जयं ब्रूया नित्योद्युक्तं वृकोदरम्
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः
अस्मिंश्चेदागते काले कालो वोऽतिक्रमिष्यति
लोकसम्भावितास्सन्तः आनृशंस्यं करिष्यथ
नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीस्समाः
काले हि समनुप्राप्ते त्यक्तव्यमपि जीवितम्
माद्रीपुत्रौ च व्यक्तव्यौ क्षत्रधर्मरतौ सदा
विक्रमेणार्जिताल्ँलोकान्वृणीतं जीवितादपि
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम
गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्
अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर
विदितौ हि तवात्यन्तं क्रुद्धाविव यथाऽन्तकौ
भीमार्जुनौ नयेतां हि देवानपि पराभवम्
तयोश्चैतदवज्ञातं यत्सा कृष्णा सभां गता
दुश्शासनश्च कर्णश्च परुषाण्यभ्यभाषताम्
दुर्योधनो भीमसेनमभ्यगर्जत्सभां गतम्
पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम्
न हि वैरं समासाद्य प्रशाम्यति वृकोदरः
सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति
यावदन्तं न नयति शात्रवाञ्छत्रुकर्शनः
न दुःखं राज्यहरणं न च द्यूते पराजयः
प्रव्राजनं च पुत्राणां न मे तद्दुःखकारणम्
यत्तु सा बृहती श्यामा एकवस्त्रा सभागता
अशृणोत्परुषा वाचः किं नु दुःखतरं ततः
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा
नाभ्यगच्छत्तदा नाथं कृष्णा नाथवती सती
यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन
रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः
साऽहमेवंविधं दुःखं सहेयं पुरुषोत्तम
भीमे जीवति दुर्धर्षे विजये चापलायिनि
वैशम्पायनः-
तत आश्वासयामास पुत्राधिभिरभिप्लुताम्
पितृष्वसारं शोचन्तीं पृथां पार्थसखो हरिः
श्रीभगवान्-
का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः
शूरस्य राज्ञो दुहिता आजमीढकुलं गता
महाकुलीना भवती ह्रदाद्ध्रदमिवागता
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता
वीरसूर्वीरपत्नी त्वं सर्वैस्समुदिता गुणैः
सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति
निद्रातन्द्रे क्रोधहर्षौ क्षुत्पिपासे हिमातपौ
एतानि पार्था निर्जित्य नित्यं वीरस्सुखे रताः
त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः
न तु स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः
अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः
उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान्
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे
अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्तयोः
अभिवादयन्ति भवतीं पाण्डवास्सह कृष्णया
आत्मानं ते कुशलिनं निवेद्याहुरनामयम्
अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान्
ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान्
वैशम्पायनः-
एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम्
पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः
कुन्ती-
यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन
यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा
अविलोपेन धर्मस्य अनिकृत्या परन्तप
प्रभावज्ञाऽस्मि ते कृष्ण सत्यस्याभिजनस्य च
व्यवसायस्य मित्रेषु बुद्धिविक्रमयोस्तथा
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत्
त्वं धाता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम्
यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति
कुरूणां पाण्डवानां च लोकानां चापराजित
सर्वस्यैतस्य वार्ष्णेय गतिस्त्वमसि माधव
प्रभावो बुद्धिवीर्यं च तादृशं तव केशव
वैशम्पायनः-
तामामन्त्र्य च गोविन्दः कृत्वा चापि प्रदक्षिणम्
प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति