दुर्योधनः-
यदाह विदुरः कृष्णे सर्वं तत्सत्यमच्युते
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः
यत्तत्सत्कारसंयुक्तं देयं वसु जनार्दने
अनेकरूपं राजेन्द्र तन्न देयं कदाचन
देशः कालस्तथाऽयुक्तो न हि नार्हति केशवः
मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति
अवमानश्च यत्र स्यात्क्षत्रियस्य विशाम्पते
न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः
स हि पूज्यतमो देवः कृष्णः कमललोचनः
त्रयाणामपि लोकानां विदितं मम सर्वथा
न तु तस्मै प्रदेयं स्यात्तथा कार्यगतिः प्रभो
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात्
वैशम्पायानः-
तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत्
भीष्मः-
सत्कृतोऽसत्कृतो वाऽपि न क्रुध्येत जनार्दनः
नावमंस्यत्यवज्ञातॄनवज्ञातोऽपि केशवः
नालमेनमवज्ञातुं नावज्ञेयो हि केशवः
यत्तु कार्यं महाबाहो मनसा कार्यतां गतम्
सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा
स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया
वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः
धर्म्यमर्थ्यं च धर्मात्मा ध्रुवं वक्ता जनार्दनः
तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैस्सह
दुर्योधनः-
न पर्याप्तोऽस्मि यद्राजञ्श्रियं निष्केवलामहम्
तैस्सहेमामुपाश्नीयां यावज्जीवं पितामह
इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम्
परायणं पाण्डवानां नियंस्यामि जनार्दनम्
तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा
पाण्डवाश्च विधेया मे स च प्रातरिहैष्यति
अत्रोपायान्यथा सम्यङ्न बुद्ध्येत जनार्दनः
यश्चोपायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे
वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा घोरं कृष्णेऽभिसंहितम्
धृतराष्ट्रस्सहामात्यो व्यथितो विमनाभवत्
ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः
धृतराष्ट्रः-
मैवं वोचः प्रजापाल नैष धर्मस्सनातनः
दूतश्च हि हृषीकेशस्सम्बन्धी च प्रियश्च नः
अपापः कौरवेयेषु स कथं बन्धमर्हति
भीष्मः-
परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः
वृणोत्यनर्थं नैवार्थं याच्यमानस्सुहृज्जनैः
इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम्
वाक्यानि सुहृदां हित्वा त्वमप्यद्यानुवर्तसे
कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः
तव पुत्रस्सहामात्यः क्षणेन न भविष्यति
पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः
नोत्सहेऽनर्थसंयुक्ताश्श्रोतुं वाचः कथञ्चन
वैशम्पायनः-
इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान्
उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः
प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम्
ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति
तं प्रयान्तं महाबाहुमनुज्ञाप्य ततो नृप
पर्यवर्तन्त ते सर्वे कुशस्थलनिवासिनः
प्रददौ पुण्डरीकाक्षो रत्नानि च धनानि च
प्रययौ पुण्डरीकाक्षः कुरूणां सदनं प्रति
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम्
दारुकेण प्रचुदिता हयास्तस्य माहात्मनः
अन्नानि शय्या वासांसि तथा रत्नानि सर्वशः
दुर्योधनेन कृष्णार्थां पथि सन्निहितं बहु
नाभ्यनन्दन्महाबाहुरुपायात्कुरुसंसदम्
धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुस्स्वलङ्कृताः
दुर्योधनादृते सर्वे भीष्मद्रोणकृपादयः
पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः
यानैर्बहुविधैरन्ये पद्भिरेव तथाऽपरे
स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा
द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ
कृष्णसम्माननार्थं च नगरं समलङ्कृतम्
बभूव राजमार्गश्च बहुरत्नसमाचितः
न च कश्चिद्गृहे राजंस्तदाऽऽसीद्भरतर्षभ
न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया
राजमार्गे नरास्तस्मिन्सम्भवन्त्यवनिं गताः
तथा समभवद्राजन्हृषीकेशप्रवेशने
आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि
प्रचलन्तीव भारेण तत्र तत्र महीतले
तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः
सुमन्दगतयोऽभूवन्राजमार्गे नरैर्वृते
स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः
पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम्
तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः
वैचित्रवीर्यं राजानमभ्यगच्छदरिन्दमः
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नराधिपः
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः
कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम्
ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम्
सभीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा
ते स्वधर्मानकुर्वन्त सम्पूज्य मधुसूदनम्
तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः
यथावयस्समीयाय राजभिस्सह माधवः
अथ द्रोणं सबाह्लीकं सपुत्रं च यशस्विनम्
कृपं च सोमदत्तं च समीयाय जनार्दनः
तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम्
शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः
अथ गां मधुपर्कं चाप्युदकं च जनार्दने
उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः
कृतातिथ्यस्तु गोविन्दस्सर्वान्परिहसन्कुरून्
आस्ते साम्बन्धिकं कुर्वन्कुरुभिः परिवारितः
सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः
राजानं समनुज्ञाप्य निरक्रामदरिन्दमः
तैस्समेत्य यथान्यायं कुरुभिः कुरुसंसदि
विदुरावसथं रम्यमुपातिष्ठत माधवः
विदुरस्सर्वकल्याणैरभिगम्य जनार्दनम्
अर्चयामास दाशार्हं सर्वकामैरुपस्थितम्
कृतातिथ्यं तु गोविन्दं विदुरस्सर्वधर्मवित्
कुशलं पाण्डुपुत्राणां पप्रच्छ मधुसूदनम्
प्रीयमाणस्य सुहृदो विदुरो बुद्धिसत्तरः
धर्मनित्यस्य तु सतो गतरोषस्य धीमतः
तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम्
क्षत्तुराचष्ट दाशार्हो यथा प्रत्यक्षदर्शिवान्