धृतराष्ट्रः-
उपप्लाव्यादिह क्षत्तरुपायातो जनार्दनः
कुशस्थले निवसति स च प्रातरिहैष्यति
आहुकानामधिपतिः पुरोगस्सर्वसात्वताम्
महामना महावीर्यो महामात्रो जनार्दनः
स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः
त्रयाणामपि लोकानां भगवान्प्रपितामहः
वृष्ण्यन्धकास्सुमनसो यस्य प्रज्ञामुपासते
आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः
तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने
प्रत्यक्षं तव धर्मज्ञ तन्मे कथयतश्शृणु
एकवर्णैस्सुक्लृप्ताङ्गैर्वह्निजातैर्हयोत्तमैः
चतुर्यक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश
नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः
अष्टानुचरमेकैकमष्टौ दास्यामि कौरव
दासीनामप्रजातानां शुभानां रुक्मवर्चसाम्
शतमस्मै प्रदास्यामि दासानामपि तावताम्
आविकं च सुखस्पर्शं पार्वतीयैरुपाहृतम्
तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च
अजिनानां सहस्राणि चीनदेशोद्भवानि च
तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः
दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः
तमप्यस्मै प्रदास्यामि तमप्यर्हति केशवः
एकेनाभिपतत्यह्ना योजनानि चतुर्दश
यानमश्वतरीयुक्तं तदप्यस्मै ददाम्यहम्
यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते
ततोष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा
मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते
प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैस्स्वलङ्कृताः
स्वलङ्कृताश्च कल्याण्यः पादैरेव सहस्रशः
वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम्
नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम्
द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः
सस्त्रीपुरुषबालं च नगरं मधुसूदनम्
उदीक्षतां महात्मानं भानुमन्तमिव प्रजाः
महाध्वजपताकाश्च क्रियन्तां सर्वतो दिशः
जलावसिक्तो विरजाः पन्थाः कार्यस्तु सर्वतः
दुश्शासनस्य च गृहं दुर्योधनगृहाद्वरम्
तदद्य क्रियतां क्षिप्रं सुसम्मृष्टमलङ्कृतम्
एतद्धि रुचिराकारैः प्रासादैरुपशोभितम्
शिवं च रमणीयं च सर्वत्र सुमहाधनम्
सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च
यद्यदर्हति वार्ष्णेयस्तत्तद्देयमसंशयम्
विदुरः-
राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः
सम्भावितश्च लोकस्य सम्मतश्चासि भारत
यत्त्वमेवं गते ब्रूयाः पश्चिमे वयसि स्थितः
शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरस्स्थविरो ह्यसि
लेखाऽश्मनीव भास्सूर्ये महोर्मिरिव सागरे
धर्मस्त्वयि महाराज इति व्यवसिताः प्रजाः
सदैव भावितो लोको गुणौघैस्तव पार्थिव
गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः
आर्जवं प्रतिपद्यस्व मा बाल्याद्बहुधा नशीः
राजन्पुत्रांश्च पौत्रांश्च सुहृदश्चैव सुप्रियान्
यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु
एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति
न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात्
एतद्दित्ससि कृष्णाय सत्येनात्मानमालभे
मायैषा सत्यमेवैतच्छद्मैतद्भूरिदक्षिणा
जानामि ते मतं राजन्गूढं बाह्येन कर्मणा
पञ्च पञ्चैव लिप्स्यन्ति ग्रामकान्पाण्डवा नृप
न च दित्ससि तेभ्यस्तांस्तच्छमं न करिष्यसि
अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि
अनेन चाप्युपायेन पाण्डवेभ्यः प्रदीयताम्
न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया
अन्यो धनञ्जयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते
वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम्
अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनञ्जयम्
अन्यत्पूर्णादपां कुम्भादन्यत्पादावनेजनात्
अन्यत्कुशलसम्प्रश्नान्न चेच्छति जनार्दनः
यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः
तदस्मै क्रियतां राजन्मानार्होऽसौ जनार्दनः
आशंसमानः कल्याणं कुरूनभ्येति केशवः
येनैव राजन्नर्थेन तमेवास्मा उपाकुरु
शममिच्छति दाशार्हस्तव दुर्योधनस्य च
पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु
पिताऽसि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे
वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत्