जनमेजयः-
कथं प्रयातो दाशार्हो महात्मा मधुसूदनः
कानि वा व्रजतस्तस्य निमित्तानि महौजसः
वैशम्पायनः-
तस्य प्रयाणे यान्यसन्निमित्तानि महात्मनः
तानि मे शृणु दिव्यानि दैवान्यौत्पातिकानि च
अनभ्रेऽशनिनिर्घोषस्सविद्युत्समजायत
अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम्
प्रत्यगूहुर्महानद्यः प्राङ्मुखास्सिन्धुसप्तमाः
विपरिता दिशस्सर्वा न प्राज्ञायत किञ्चन
प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत
उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम्
तमस्संवृतमप्यासीत्सर्वं जगदिदं तथा
न दिशो विदिशो राजन्प्रज्ञायन्तेस्म रेणुना
प्रादुरासीन्महाञ्छब्दः खे शरीरमदृश्यत
सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत्
प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः
आरुजन्तृणशो वृक्षान्परुषोऽशनिनिस्स्वनः
यत्र यत्र च वार्ष्णेयो वर्तते पथि भारत
तत्र तत्र सुखो वायुस्सर्वं चासीत्प्रदक्षिणम्
ववर्ष पुष्पवर्षं च कमलानि च भूरिशः
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः
सङ्गच्छन्ब्राह्मणै राजंस्तत्र तत्र महाभुजः
अर्च्यते मधुपर्कैश्च वसुभिश्च वसुप्रदः
तं किरन्ति महात्मानं वन्यैः पुष्पैस्सुगन्धिभिः
स्त्रियः पथि समागम्य सर्वभूतहिते रतम्
स शालिभवनं रम्यं सर्वसस्यसमाचितम्
सुख परमधर्मिष्ठमत्यगान्मधुसूदनः
पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोषणान्
पुराणि व्यतिचक्राम राष्ट्राणि नगराणि
नित्यं हृष्टास्सुमनसो भारतैरभिरक्षिताः
नोद्विग्नाः परचक्रेभ्यो ह्यनयानामकोविदाः
उपप्लाव्यादथागम्य जनाः पुरनिवासिनः
पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया
ते तु सर्वे सुनामानमग्निमिद्धमिव प्रभुम्
अर्चयामासुरर्चार्हं देशातिथिमुपस्थितम्
कुशस्थलं समासाद्य केशवः परवीरहा
प्रकीर्णरश्मावादित्ये विमले लोहितायति
अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि
रथमोचनमादिश्य सन्ध्यामुपविवेश ह
दारुकोऽपि हयान्मुक्त्वा परिर्य च शास्त्रतः
मुमोच सर्ववर्माणि मुक्त्वा चैतानवासृजत्
ततो ह्यनुचरान्सर्वानुवाच मधुसूदनः
श्रीभगवान्-
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे वयम्
वैशम्पायनः-
तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः
क्षणेन चान्नपानानि रसवन्ति समार्जयन्
तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप
आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः
तेऽभिगम्य महात्मानं हृषीकेशमरिन्दमम्
पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम्
ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम्
न्यवेदयन्त वेश्मानि गुणवन्ति महान्ति च
तान्प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः
अभ्येत्य चैषां वेश्मानि पुनरायात्सहैव तैः
सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः
भुक्त्वा च सह तैस्सर्वैरवसत्तां क्षपां सुखम्
तदा दूतैस्समाज्ञाय आयान्तं मधुसूदनम्
धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम्
द्रोणं च सञ्जयं चैव विदुरं च महामतिम्
दुर्योधनं सहामात्यं हृष्टरोमाऽब्रवीदिदम्
धृतराष्ट्रः-
अद्भुतं महदाश्चर्यं श्रूयते कुरुनन्दन
स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहे गृहे
सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः
पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च
उपायास्यति दाशार्हः पाण्डवार्थे पराक्रमी
स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः
तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरो हि सः
तस्मिन्धृतिश्च वीर्यं च पूजा चौजश्च माधवे
स मान्यतां नरश्रेष्ठस्स हि धर्मस्सनातनः
पूजितो हि सुखाय स्यादसुखस्स्यादपूजितः
स चेत्तुष्यति दाशार्ह उपचरैररिन्दमः
कृष्णात्सर्वानभिप्रायान्वयं लप्स्यामहे नृषु
तस्य पूजार्थमद्यैव संविधस्त्व परन्तप
सभाः पथि विधीयन्तां सर्वकामसमन्विताः
यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै
तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे
वैशम्पायनः-
ततो भीष्मादयस्सर्वे धृतराष्ट्रं जनाधिपम्
ऊचुः परममित्येवं पूजयन्तोऽस्य तद्वचः
तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा
सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे
ततो देशेषु देशेषु रमणीयेषु भागशः
सर्वरत्नसमाकीर्णास्सभाश्चक्रुरनेकशः
आसनानि विचित्राणि युतानि विविधैर्गुणैः
स्त्रियो गन्धानलङ्कारान्वासांसि विविधानि च
गुणवन्त्यन्नपानानि भोज्यानि विविधानि च
माल्यानि च सुगन्धीनि तानि राजा ददौ ततः
विशेषतश्च वासार्थं सभां ग्रामे कुशस्थले
विदधे कौरवो राजा बहुरत्नां मनोरमाम्
एतद्विधाय वै सर्वं देवार्हमतिमानुषम्
आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा
तास्सभाः केशवस्सर्वा रत्नानि विविधानि च
असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत्