युधिष्ठिरः-
कुरूणामिह सर्वेषां भवान्सुहृदनुत्तमः
सम्बन्धी दयितो नित्यमुभयोः पक्षयोरपि
पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम्
समर्थः प्रशमं चैषां कर्तुमर्हसि केशव
त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम्
शान्त्यर्थं भ्रातरं ब्रूया यद्वाच्यमिह शत्रुहन्
त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम्
हितं नादास्यते बालो दिष्टस्य वशमेष्यति
श्रीभगवान्-
धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम्
एष यास्यामि राजानं धृतराष्ट्रमभीप्सया
वैशम्पायनः-
ततो व्यपेते तमसि सूर्ये विमल उद्गते
मैत्रे मुहूर्ते सम्प्राप्ते मृद्वर्चिषि दिवाकरे
कौमुदे मासि रेवत्यां शरदन्ते हिमागमे
स्फीतसस्यसुखे काले कल्यस्सत्ववतां वरः
मङ्गल्याः पुण्यनिर्घोषा वाचश्शृण्वंश्च सूनृताः
ब्राह्मणानां प्रतीतानामृषीणामिव वासवः
कृत्वा पौर्वाह्णिकं कृत्यं स्नातश्शुचिरलङ्कृतः
उपतस्थे विवस्वन्तं पावकं च जनार्दनः
ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च
अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः
तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः
शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम्
श्रीभगवान्-
रथ आरोप्यतां शङ्खश्चक्रं च गदया सह
उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च
दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौबलः
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा
वैशम्पायनः-
ततस्तन्मतमाज्ञाय केशवस्य पुरस्सराः
प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः
तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम्
सूर्यचन्द्रप्रकाशाभ्यां चक्राभ्यां समलङ्कृतम्
अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैश्च मृगपक्षिभिः
पुष्पैश्च विविधैश्चित्रैर्मणिरत्नैश्च सर्वशः
तरुणादित्यसङ्काशं बृहन्तं चारुदर्शनम्
मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम्
सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम्
यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम्
वाजिभिस्सैन्यसुग्रीवमेधपुष्पबलाहकैः
सूतस्सम्पादयाञ्चक्रे सम्पन्नैस्सर्वसम्पदा
महिमानं तु कृष्णस्य भूय एवाभिवर्धयन्
सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः
तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम्
आरुरोह रथं शौरिर्विमानमिव पुण्यकृत्
ततस्सात्यकिमारोप्य प्रययौ पुरुषोत्तमः
पृथिवीं चान्तरिक्षं च रथघोषेण नादयन्
व्यपेताभ्रघनः कालः क्षणेन समजायत
शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः
प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः
प्रयाणे वासुदेवस्य बभूवुरनुयायिनः
मङ्गल्यार्थप्रदैश्शब्दैरन्ववर्तन्त सर्वशः
सारसाश्शतपत्राश्च हंसाश्च मधुसूदनम्
मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः
प्रदक्षिणशिखो भूत्वा विधूमस्समपद्यत
वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः
शुकनारदवाल्मीका मरुत्तः कुशिको भृगुः
देवब्रह्मर्षयश्चैव कृष्णं यदुसुखावहम्
प्रदक्षिणमवर्तन्त सहिता वासवानुजम्
एवमेतैर्महाभागैर्महर्षिगणसाधुभिः
पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति
देवताभ्यो नमस्कृत्य ब्राह्मणान्स्वस्ति वाच्य च
प्रययौ पुण्डरीकाक्षस्सात्यकेन सहाच्युतः
तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ
चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः
द्रुपदः काशिराजश्च शिखण्डी च महारथः
धृष्टद्युम्नस्सपुत्रश्च विराटः केकयैस्सह
संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम्
ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः
राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा
यो वै न कामान्न भयान्न लोभान्नार्थकारणात्
अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः
धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः
ईश्वरस्सर्वभूतानां देवदेवः प्रतापवान्
तं सर्वगुणसम्पन्नं श्रीवत्सकृतलक्षणम्
सम्परिष्वज्य कौन्तेयस्सन्देष्टुमुपचक्रमे
युधिष्ठिरः-
या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला
उपवासतपश्शीला गुरूणां पूजने रता
देवतातिथिपूजासु भृत्यानां पोषणे रता
वत्सला प्रियपुत्रा च माताऽस्माकं जनार्दन
सुयोधनभयाद्या नस्स्थापितामित्रकर्शन
महतो मृत्युसम्बाधाद्दुस्तरान्नौरिवार्णवात्
अस्मत्कृते च सततं यया दुःखानि माधव
अनुभूतान्यदुःखार्हां तां स्म पृच्छेरनामयम्
भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम्
अभिवाद्य स्वजेथास्त्वं पाण्डवान्परिकीर्तयन्
ऊधात्प्रभृति दुःखानि स्वसुतानामरिन्दम
निवासानऽतदर्हांश्च पश्यन्ती दुःखमश्नुते
अपि जातु स कालस्स्यात्कृष्णाहं भृशदुःखिताम्
यदेनां मातरं क्लिष्टां सुखं दद्यामरिन्दम
व्रजतो ह्यन्वधावत्सा कृपणा पुत्रगर्धिनी
रुदतीमपहायैनामगच्छामैव यद्वनम्
सा नूनं म्रियते दुःखैस्सा चेज्जीवति केशव
पृथा पुत्राधिभिर्गाढमार्ता चानर्तसत्कृता
अभिवाद्याऽथ सा कुन्ती त्वया मद्वचनाद्विभो
सङ्क्षाम्याथ नमस्कार्या सर्वेषां वचनादपि
धृतराष्ट्रं च कौरव्यं राजानं च वयोधिकम्
भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम्
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्प्रति
यथावयो यथास्थानं पूजयस्व जनार्दन
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम्
अगाधबुद्धिं मर्मज्ञं स्वजेथा मधुसूदन
वैशम्पायनः-
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः
अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम्
व्रजन्नेव तु बीभत्सुस्सखायं पुरुषर्षभम्
अब्रवीत्परवीरघ्नं दाशार्हमपराजितम्
अर्जुनः-
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये
अर्धराज्यस्य गोविन्द विदितं सर्वराजसु
तच्चेद्दद्युरसङ्गेन सत्कृत्यानवमत्य च
प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात्
अतश्चेदन्यथाकर्ता धार्तराष्ट्रोऽनुपायवित्
अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन
वैशम्पायनः-
एवमुक्ते पाण्डवेन समहृष्यद्वृकोदरः
मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः
वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान्
धनञ्जयवचश्श्रुत्वा हर्षोत्सिक्तमना भृशम्
तस्य तं निनदं श्रुत्वा सम्प्रावेपन्त धन्विनः
वाहनानि च सर्वाणि शकृन्मूत्रे प्रसुस्रुवुः
इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम्
अनुज्ञातो निववृते परिष्वज्य जनार्दनम्
तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः
तूर्णमभ्यगमद्धृष्टस्सैन्यसुग्रीववाहनः
ते हया वासुदेवस्य दारुकेण प्रचोदिताः
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम्
अथापश्यन्महाबाहुर्ऋषीनध्वनि केशवः
ब्राह्म्या श्रिया दीप्यमानान्स्थितानुभयतः पथि
सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः
यथावृत्तानृषीन्सर्वानभ्यभाषत पूजयन्
श्रीभगवान्-
कच्चिल्लोकेषु कुशलं कच्चिद्धर्मस्स्वनुष्ठितः
ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने
पितृदेवातिथिभ्यश्च कच्चित्पूजा स्वनुष्ठिता
वैशम्पायनः-
तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः
श्रीभगवान्-
भगवन्तः क्व संसिद्धाः कोऽवधिर्भवतामिह
किं वा कार्यं भगवतामहं किं करवाणि वः
केनार्थेनोपसम्प्राप्ता भगवन्तो महीतलम्
वैशम्पायनः-
एवमुक्ताः केशवेन मुनयश्शंसितव्रताः
नारदप्रमुखास्सर्वे प्रत्यनन्दन्त केशवम्
अधश्शिरास्सर्पमाली महर्षिस्स हि देवलः
अर्वावसुस्सुजानुश्च मैत्रेयश्शुनको बली
बको दाल्भ्यस्स्थूलशिराः कृष्णद्वैपायनस्तथा
आयोधधौम्यो धौम्यश्च आणिमाण्डव्यकौशिकौ
दामोष्णीषस्त्रिषवणः पर्णादो घटजानुकः
मौञ्जायनो वायुभक्षः पाराशर्योऽथ शारिकः
शीलवानशनिर्धाता शून्यपालोऽकृतव्रणः
श्वेतकेतुः कहोलश्च रामश्चैव महातपाः
तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम्
परिष्वज्य च गोविन्दं पुराणचरिते सखा
श्रीजामदग्न्यः-
देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः
राजर्षयश्च मानार्हं मानयन्ति तपस्विनः
दैवासुरस्य द्रष्टारः पुराणस्य महाद्युते
समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वशः
सभासदश्च राजानस्त्वां च सत्यं जनार्दन
एतन्महत्प्रेक्षणीयं द्रष्टुमिच्छाम केशव
धर्मार्थसहिता वाचश्श्रोतुमिच्छाम माधव
त्वयोच्यमानाः कुरुषु राजमध्ये परन्तप
सभायां मधुरा वाचश्शुश्रूषन्तस्त्वयेरिताः
कुरूणां प्रतिपत्तिं च श्रोतुमिच्छाम माधव
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः
त्वं च यादवशार्दूल सभायां वै समेष्यथ
तव वाक्यानि दिव्यानि तथा तेषां च माधव
श्रोतुमिच्छाम गोविन्द सत्यानि च शुभानि च
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम्
याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम्
आसीनमासने दिव्ये ज्वलन्तं तेजसाऽच्युत
वैशम्पायनः-
प्रयान्तं देवकीपुत्रं परवीररुजो दश
महारथा महाबाहुमन्वयुश्शस्त्रपाणयः
पदातीनां सहस्रं च सादिनां च परन्तप
भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोऽपरे