वैशम्पायानः-
राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम्
कृष्णा दाशार्हमासीनमब्रवीच्छोककर्शिता
सुता द्रुपदराजस्य स्वञ्चितायतमूर्धजा
सम्पूज्य सहदेवं च सात्यकिं च महारथम्
भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः
अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी
द्रौपदी-
विदितं ते महाबाहो धर्मज्ञ मधुसूदन
यथा निकृतिमास्थाय भ्रंशिताः पाण्डवास्सुखात्
धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन
यथा च सञ्जयो राज्ञा मन्त्रं रहसि श्रावितः
युधिष्ठिरस्य दाशार्ह तच्चापि विदितं तव
यथोक्तस्सञ्जयश्चैव तच्च सर्वं श्रुतं त्वया
पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते
कुशस्थलं वृकस्थलं वासन्तीं वारणावतम्
अवसानं महाबाहो कञ्चिदेकं च पञ्चमम्
इति दुर्योधनो वाच्यस्सुहृदश्चास्य केशव
न चापि ह्यकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः
युधिष्ठिरस्य दाशार्ह श्रीमतस्सन्धिमिच्छतः
अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः
सन्धिमिच्छेन्न कर्तव्यं तत्र गत्वा कथञ्चन
शक्ष्यन्ति हि महाबाहो पाण्डवास्सृञ्जयैस्सह
धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम्
न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन
तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन
साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः
क्षेप्तव्यास्ते तु दण्डेन जीवितं परिरक्षता
तस्मात्तेषु महान्दण्डः क्षेप्तव्यः क्षिप्रमच्युत
त्वया चैव महाबाहो पाण्डवैस्सह सृञ्जयैः
एतत्समर्थं पार्थानां तव चैव यशस्करम्
क्रियमाणं भवेत्कृष्ण क्षत्रस्य च सुखावहम्
क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः
अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता
अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात्
गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक्
यथाऽवध्ये भवेद्दोषो वध्यमाने जनार्दन
स वध्यस्यावधे दोष इति धर्मविदो विदुः
यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु
पाण्डवैस्सह दाशार्ह सृञ्जयैश्च महारथैः
पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन
का तु सीमन्तिनी मादृक् पृथिव्यामस्ति केशव
सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता
धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी
आजमीढकुलं प्राप्ता स्नुषा पाण्डोर्महात्मनः
महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम्
सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः
अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः
साऽहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता
पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव
जीवस्तु पाण्डुपुत्रेषु पञ्चालेष्वथ वृष्णिषु
दासीभूताऽस्मि पापानां सभामध्ये व्यवस्थिता
निरमर्षेष्वचेष्टेषु प्रेक्ष्यमाणेषु पाण्डुषु
पाहि मामिति गोविन्द मनसा चिन्तितोऽसि मे
यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत्
वरं वृणीष्व पाञ्चालि वरार्हाऽसि मता मम
अदासाः पाण्डवास्सन्तु सरथास्सायुधा इति
मयोक्ते यत्र निर्मुक्ता वनवासाय केशव
एवं विधानां दुःखानामभिज्ञोऽसि जनार्दन
त्रायस्व पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवाम्
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः
श्नुषा भवामि धर्मेण साऽहं दासीकृताऽभवम्
धिक्पार्थस्य धनुष्मत्तां भीमसेनस्य धिग्बलम्
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति
यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि
धार्तराष्ट्रेषु वै कोपस्सर्वः कृष्ण विधीयताम्
वैशम्पायनः-
इत्युक्त्वा मृदुसंहारमञ्चिताग्रं सुदर्शनम्
सुनीलमसितापाङ्गी सर्वगन्धाधिवासितम्
सर्वलक्षणसम्पन्नं महाभुजगवर्चसम्
केशपक्षं वरारोहा गृह्य वामेन पाणिना
पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी
अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत्
द्रौपदी-
अयं ते पुण्डरीकाक्ष दुश्शासनकरोद्धृतः
स्मर्तव्यस्सर्वकार्येषु परेषां सन्धिमिच्छताम्
यदि भीमार्जुनौ कृष्ण कृपणौ सन्धिकामुकौ
पिता मे योत्स्यते वृद्धस्सह पुत्रैर्महारथैः
पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन
अभिमन्युं पुरस्कृत्य योत्स्यन्ते कुरुभिस्सह
दुश्शासनभुजं श्यामं सञ्छिन्नं पांसुकुण्ठितम्
यद्यहं तु न पश्यामि का शान्तिर्हृदयस्य मे
त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे
निधाय हृदये मन्युं प्रदीप्तमिव पावकम्
विदीर्यते मे हृदयं भीमवाक्छल्यपीडितम्
योऽयमद्य महाबाहुर्धर्मं समनुपश्यति
वैशम्पायनः-
इत्युक्त्वा बाष्पसन्नेन कण्ठेनायतलोचना
रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम्
स्तनौ पीनायतश्रोणी सहितावभिवर्षती
द्रवीभूतमिवात्युष्णं मुञ्चन्ती वारि नेत्रजम्
तामुवाच महाबाहुः केशवः परिसान्त्वयन्
श्रीभगवान्-
अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः
एवं ता भीरु रोस्त्यन्ति निहतज्ञातिबान्धवाः
हतमित्रा हतबला येषां क्रुद्धाऽसि भामिनी
अहं च तत्करिष्यामि भीमार्जुनयमैस्सह
युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात्
धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः
शेष्यन्ते निहता भूमौ श्वसृगालादनीकृताः
चलेद्धि हिमवाञ्शैलो मेदिनी शकलीभवेत्
द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत्
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत्
सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम्
हतामित्राञ्श्रिया युक्तानचिदाद्द्रक्ष्यसे पतीन्