अर्जुनः-
उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परन्तप
नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो
लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात्
अफलं मन्यसे वाऽपि पुरुषस्य पराक्रमम्
न चान्तरेण कर्माणि पौरुषेण फलोदयः
यदिदं भाषितं वाक्यं तथैव न तथैव च
न चैतदेवं द्रष्टव्यमसाध्यमिति किञ्चन
किं चैतन्मन्यसे कृच्छ्रमस्माकमुपपादितम्
कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः
सम्पाद्यमानं सम्यक्स्यात्तत्कर्म सफलं प्रभो
स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः
पाण्डवानां कुरूणां च भवान्परमकस्सुहृत्
सुराणामसुराणां च यथा वीर प्रजापतिः
कुरूणां पाण्डवानां च प्रविधत्स्व निरामयम्
अस्मद्धितमनुष्ठातुं न मन्ये तव दुष्करम्
एवं चत्कार्यतामेति कार्यं तव जनार्दन
गमनादेवमेव त्वं करिष्यसि जनार्दन
चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मनि
भविष्यति च तत्सर्वं यथा तव चिकीर्षितम्
शर्म तैस्सह वा नोऽस्तु तव वा यच्चिकीर्षितम्
विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः
येन धर्मसुते दृष्टा न सा श्रीरुपमर्षिता
न्यायेनापश्यतोपायं धर्मिष्ठं मधुसूदन
उपायेन नृशंसेन हृता दुर्द्यूतदेविना
कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः
समाहूतो निवर्तेत प्राणत्यागेऽपि पण्डितः
अधर्मेण जितान्दृष्ट्वा वने प्रवृजितांस्तथा
वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः
न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि
क्रियातां तत्तु मुख्यं स्यान्मृदुना चेतरेण वा
अथवा मन्यसे ज्यायान्वधस्तेषामनन्तरम्
तदेव क्रियतामाशु न विचार्यमतस्त्वया
जानासि हि यथा तेन द्रौपदी पापबुद्धिना
परिक्लिष्टा सभामध्ये तच्च तस्योपमर्षितम्
स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव
न मे सञ्जायते बुद्धिर्बीजमुप्तमिवोषरे
तस्माद्यन्मन्यसे युक्तं पाण्डवानां हितं च यत्
तदाशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम्