वैशम्पायनः-
तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः
सदश्ववत्समाधावन्बभाषे तदनन्तरम्
भीमसेनः-
अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत
प्रणीतभावमत्यर्थं युधि सत्यपराक्रमम्
वेत्सि दाशार्ह स त्वं मे दीर्घकालं सहोषितः
उत वा मां न जानासि प्लवन्हृद इवाप्लवे
तस्मादनभिरूपाभिर्वाग्भिर्मां त्वं समर्च्छसि
कथं हि भीमसेनं मां जानन्कश्चन माधव
ब्रूयादप्रियरूपाणि यथा मां वक्तुमर्हसि
तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन
आत्मनः पौरुषं चैव बलं च न समं परैः
सर्वथाऽनार्यकर्मैतत्प्रशंसा स्वयमात्मनः
अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः
पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः
अचले चाप्रतिष्ठे चाप्यनन्ते सर्वमातरौ
यदीमे सहसा क्रुद्धे समेयातां शिले इव
अहमेते निगृह्णीयां बाहुभ्यां सचसाचरे
पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव
य एतौ प्राप्य मुच्येत न तं पश्यामि पूरुषम्
हिमवांश्च समुद्रश्च वज्री वा बलभित्स्वयम्
मयाऽभिपन्नं त्रायेरन्बलमास्थाय न त्रयः
युद्धार्हान्क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः
अधः पादतलेनैतानधिष्ठास्यामि भूतले
न हि त्वं नाभिजानासि मम विक्रममच्युत
यथा मया विनिर्जित्य राजानो वशगाः कृताः
अथ चेन्मां न जानासि यथा सूर्यमिवोदितम्
विगाढे युधि सम्बाधे वेत्स्यसे मां जनार्दन
किं माऽत्यधाक्षीः परुषैः व्रणं सूच्येव चानघ
यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः
द्रष्टासि युधि सम्बाधे प्रवृत्ते वैशसेऽहनि
मया प्रणुन्नान्मातङ्गान्रथिनस्सादिनस्तथा
तथाऽन्तिकमिव क्रुद्धं निघ्नन्तं क्षत्रियर्षभान्
द्रष्टा मां त्वं च लोकश्च निकर्षन्तं परान्वरान्
न मे सीदन्ति गात्राणि न ममोद्वेपते मनः
सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम
किं तु सौहृदमेवैतत्कृपया मधुसूदन
सर्वांस्तितिक्षे सङ्क्लेशान्मा स्म नो भरता नशन्
श्रीभगवान्-
भावं जिज्ञासमानोऽहं प्रणयादिदमब्रवम्
न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया
वेदाहं तव माहात्म्यमुत ते वेदयद्बलम्
उत ते वेद कर्माणि न त्वां परिभवाम्यहम्
यदा चात्मनि कल्याणं सम्भावयसि पाण्डव
सहस्रगुणमप्येतत्त्वयि सम्भावयाम्यहम्
यादृशे च कुले जन्म सर्वराजाभिपूजिते
बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः
जिज्ञासन्तो हि धर्मस्य सन्दिग्धस्य वृकोदर
पर्यायं न व्यवस्यन्ति देवमानुषयोर्जनाः
स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु
विनाशेऽपि स एवास्य सन्दिग्धं कर्म पौरुषम्
अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः
सुमन्त्रितं सुगीतं च न्यायतश्चोपपादितम्
कृतं मानुष्यकं कर्म दैवेनापि विरुद्ध्यते
तथा दैवकृतं कर्म पौरुषेण विहन्यते
शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत
यदन्यद्दिष्टभावस्य पुरुषस्य स्वयं कृतम्
तस्मादनुपरोधश्च विद्यते तत्र लक्षणम्
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः
एवं बुद्धिः प्रवर्तेत फलं स्यादुभयान्वये
य एवं कृतबुद्धिस्सन्कर्मस्वेव प्रवर्तते
नासिद्धौ व्यथते किञ्चिन्न सिद्धौ हर्षमश्नुते
यत्रेयमर्थमात्रा ते भीमसेन विवक्षिता
नैकान्तसिद्धिर्वक्तव्या शत्रुभिस्सह संयुगे
नातिप्रणीतबुद्धिस्स्यात्तथाभावविपर्यये
विषादमर्च्छेद् ग्लानिं वाऽप्येतमर्थं ब्रवीमि ते
श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव
यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन्
शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम
भवतां च कृतः कामस्तेषां च श्रेय उत्तमम्
ते चेदभिनिवेक्ष्यन्ते नाभ्युपैष्यन्ति मद्वचः
कुरवो युद्धमेवात्र घोरं कर्म भविष्यति
अस्मिन्युद्धे भीमसेन त्वयि भारस्समाहितः
धूरर्जुनेन धार्या स्याद्वोढव्य इतरो जनः
अहं हि यन्ता बीभत्सोर्भविता संयुगे सति
धनञ्जयस्यैष कामो न हि युद्धं न कामये
तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव
तदन्नक्लीबया वाचा तेजस्ते समदीपयम्