वैशम्पायनः-
एतछ्रुत्वा महाबाहुः केशवः प्रहसन्निव
अभूतपूर्वं भीमस्य मार्दवोपहितं वचः
गिरेरिव लघुत्वं तच्छीतत्वमिव पावके
मत्वा रामानुजश्शौरिश्शार्ङ्गधन्वा वृकोदरम्
सन्तेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम्
उवाच भीममासीनं कृपयाऽभिपरिप्लुतम्
श्रीभगवान्-
त्वमन्यदा भीमसेन युद्धमेव प्रशंससि
वधाभिनन्दिनः पापान्धार्तराष्ट्रान्मिमर्दिषुः
न च स्वपिषि जागर्षि क्रुद्धश्शेषे परन्तप
घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे
विनिश्वसन्नग्निवर्णस्सन्तप्तस्स्वेन तेजसा
अप्रशान्तमना भीम सधूम इव पावकः
एकान्ते निष्टनञ्शेषे भारार्त इव दुर्बलः
अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः
आरुज्य वृक्षान्निर्मूलान्गजः परिभवन्निव
निघ्नन्पद्भिः क्षितिं भीम निष्टनन्प्रतिधावसि
नास्मिञ्जनेऽभिरमसे रहः क्षिपसि पाण्डव
नाशनन्निशि दिवा चापि कदाचिदभिनन्दसि
अस्वस्थोऽस्मयमानश्च रहस्यास्से रुदन्निव
जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः
भ्रुकुटिं च पुनः कुर्वन्नोष्ठौ च विलिहन्निव
अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम्
यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन्
यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिभान्
तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः
हन्ताऽहं गदयाऽभ्येत्य दुर्योधनममर्षणम्
इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम्
तस्य ते प्रशमे बुद्धिर्ध्रियतेऽत्र परन्तप
अहो युद्धाभिकाङ्क्षाणां युद्धकाल उपस्थिते
चेतांसि विप्रतीपानि यत्त्वां भीरभिविन्दति
अहो पार्थ निमित्तानि विपरीतानि पश्यसि
स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि
अहो नाशंससे किञ्चित्पुंस्त्वं क्लीब इवात्मनि
कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः
तद्वेपते ते हृदयं मनस्ते प्रतिषीदति
ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि
अनित्यं किल मर्त्यस्य पार्थ चित्तं चलाचलम्
वातवेगप्रचलिता अष्टीला शाल्मलेरिव
तवैषा विकृता बुद्धिर्गवां वागिव मानुषी
मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवेऽम्भसि
इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम्
यदीदृशं प्रभाषेथा भीमसेनासमं तव
स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत
उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव
न चैतदनुरूपं ते यत्ते शान्तिररिन्दम
यदोजसा न लभते क्षत्रियो न तदश्नुते