धृतराष्ट्रः-
सञ्जयः-
चक्षुष्मतां वै स्पृहयामि सञ्जय द्रक्ष्यन्ति ये वासुदेवं समीपे
विभ्राजमानं वपुषा परेण प्रकाशयन्तं प्रदिशो दिशश्च
वक्तां वाचं राजमध्ये सभायां वृष्णिश्रेष्ठो मुनिभिर्भ्राजमानः
धृतराष्ट्रः-
ईरयन्तं भारतीं भारतानामभ्यर्चनीयां शङ्करीं सृञ्जयानाम्
बुभूषद्भिर्गर्हणीयामनिन्द्यां परासूनामग्रहणीयरूपाम्
समुद्यन्तं सात्वतमेकवीरं प्रणेतारमृषभं यादवानाम्
निहन्तारं क्षोभणं शात्रवाणां मुष्णन्तं वै द्विषतां चैव तेजः
द्रष्टारो हि कुरवस्तं समेता महात्मानं शत्रुहणं वरेण्यम्
ब्रुवन्तं वाचमनृशंसरूपां वृष्णिश्रेष्ठं मोहयन्तं मदीयान्
ऋषिं सनातनतमं विपश्चितं वाचस्समुद्रं कलशं यतीनाम्
अरिष्टनेमिं गरुडं सुपर्णं हरिं प्रजानां भुवनस्य धाम
सहस्रशीर्षं पुरुषं पुराणमनादिमध्यान्तमनन्तकीर्तिम्
शुक्रस्य धातारमजं च नित्यं परं परेषां शरणं प्रपद्ये
त्रैलोक्यनिर्माणमजं जनित्रं देवासुराणामथ नागरक्षसाम्
नराधिपानां विदुषां प्रधानमिन्द्रानुजं तं शरणं प्रपद्ये